________________
१०४
५
[काव्यानुशासनम् निरिन्द्रिययोः संभोगारोपणात्संभोगाभासो यथा
पर्याप्तपुष्पस्तबकस्तनीभ्यः स्फुरत्प्रवालौष्ठमनोहराभ्यः । - लतावधूभ्यस्तरवोऽप्यवापुर्विनम्रशाखाभुजबन्धनानि ॥१५८॥
[कुमार० ३.३९] विप्रलम्भारोपणाद्विप्रलम्भाभासो यथा
वेणीभूतप्रतनुसलिला तामतीतस्य सिन्धुः पाण्डुच्छाया तटरुहतरुभ्रंशिभिः शीर्णपणैः । सौभाग्यं ते सुभग विरहावस्थया व्यञ्जयन्ती कार्यं येन त्यजति विधिना स त्वयैवोपपाद्यः ॥१५९।।
मेघदूत (पूर्व) २९] भावाभासो यथा
गुरुगर्भभरक्लान्ताः स्तनन्त्यो मेघपतयः । .... अचलाधित्यकोत्सङ्गमिमाः समधिशेरते ॥१६०।।
तिरश्चोः संभोगाभासो यथा... मधु द्विरेफ; कुसुमैकपात्रे पपौ प्रियां स्वामनुवर्तमानः । शृङ्गेण संस्पर्शनिमीलिताक्षी मृगीमकण्डूयत कृष्णसारः ॥१६१॥
[कुमार० ३.३६]
यथा च
ददौ सर:पङ्कजरेणुगन्धि गजाय गण्डूषजलं करेणुः । ४ अर्थोपभुक्तेन बिसेन जायां संभावयामास रथाङ्गनामा ॥१६२॥
[कुमार० ३.३७] विप्रलम्भाभासो यथा
आपृष्टासि व्यथयति मनो दुर्बला वासरश्रीरेह्यालिङ्ग क्षपय रजनीमेकिका चक्रवाकि । नान्यासक्तो न खलु कुपितो नानुरागच्युतो वा दैवाशक्तस्तदिह भवतीमस्वतन्त्रस्त्यजामि ।।१६३।।
२५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org