________________
१०२
१०
१५
२०
२५
[काव्यानुशासनम्
शृङ्गारे तु मरणाध्यवसायो मरणादूर्ध्वं झटिति पुनर्योगो वा निबध्यते । अन्यत्र तु स्वेच्छा । यथासंप्राप्तेऽवधिवासरे क्षणममुं तद्वर्त्मवातायनं वारंवारमुपेत्य निष्क्रियतया निश्चित्य किंचिच्चिरम् । संप्रत्येव निवेद्य केलिकुररी: साम्रं सखीभ्यः शिशोमधिव्याः सहकारकेण करुणः पाणिग्रहो निर्मितः ॥ १५६ ॥
[
तथा
तीर्थे तोयव्यतिकरभवे जह्रुकन्यासरखोर्देहत्यागादमरगणनालेख्यमासाद्य सद्यः । पूर्वाकाराधिकतररुचा संगतः कान्तया लीलागारेष्वरमत पुनर्नन्दनाभ्यन्तरेषु ॥ १५७ ॥
पञ्चाशद्भावाः ।
[ रघु० ८.९५ ]
अथ सात्त्विकानाह
७९) स्तम्भस्वेदरोमाञ्चस्वरभेदकम्पवैवर्ण्याश्रुप्रलया अष्टौ सात्त्विकाः ||५४|| सीदत्यस्मिन्मन इति व्युत्पत्तेः सत्त्वगुणोत्कर्षात्साधुत्वाच्च प्राणात्मकं वस्तु सत्त्वम्, तत्र भवाः सात्त्विकाः । भावा इति वर्तते । ते च प्राणभूमिप्रसृतरत्यादिसंवेदनवृत्तयो बाह्यजडरूपभौतिकनेत्रजलादिविलक्षणा विभावेन रत्यादिगतेनैवातिचर्वणागोचरेणाहृता अनुभावैश्व गम्यमाना भावा भवन्ति । तथाहि पृथ्वीभाग प्रधाने प्राणे संक्रान्तश्चित्तवृत्तिगणः स्तम्भो विष्टब्धचेतनत्वम् । जलभागप्रधाने तु बाष्पः । तेजसस्तु प्राणनैकट्यादुभयथा तीव्रातीव्रत्वेन प्राणानुग्रह इति द्विधा स्वेदो वैवर्ण्यं च । तद्धेतुत्वाच्च तथा व्यवहारः । आकाशानुग्रहे गतचेतनत्वं प्रलयः । वायुस्वातन्त्र्ये तु तस्य मन्दमध्योत्कृष्टावेशात्त्रेधा रोमाञ्चवेपथुस्वरभेदभावेन स्थितिरिति भरतविदः ।
बाह्यास्तु स्तम्भादयः शरीरधर्मा अनुभावाः । ते चान्तरालिकान्सात्त्विकान्भावान्गमयन्तः परमार्थतो रतिनिर्वेदादिगमका इति स्थितम् । एवं च नवस्थायिनस्त्रयस्त्रिंशद्व्यभिचारिणोऽष्टौ सात्त्विका इति
Jain Education International
रसभावानभिधाय तदाभासानाह
८०) निरिन्द्रियेषु तिर्यगादिषु चारोपाद्रसभावाभासौ ॥५५॥
]
For Private & Personal Use Only
www.jainelibrary.org