________________
१००
[काव्यानुशासनम् तत्रोत्पातादावेगो यथा
किं किं सिंहस्ततः किं नरसदृशवपुर्देव चित्रं गृहीतो नैवेदृक्कोऽपि जीवोऽद्भुतमुपनिपतन्पश्य संप्राप्त एव । शस्त्रं शस्त्रं न शस्त्री त्वरितमहह हा कर्कशत्वं नखानाम् इत्थं दैत्याधिनाथो निजनखकुलिशैर्येन भिन्नः स पायात् ॥१५२।।
[कवीन्द्रवचन० ४०] एवं वातावेगादिषूदाहार्यम् । ७६) संदेहादेर्वितर्कः शिरःकम्पाग्निकृत् ।।५१।।
संदेहविमर्शविप्रतिपत्त्यादिभ्यः संभावनाप्रत्ययो वितर्कः । स शिरःकम्पभ्रूक्षेपसंप्रधारणकार्यकला१० पमुहुर्ग्रहणमोक्षणादिभिर्वर्ण्यः । यथा
अनङ्गः पञ्चमिः पौष्पैर्विश्वं व्यजयतेषुभिः । इत्यसंभाव्यमथ वा विचित्रा वस्तुशक्तयः ॥१५३॥
२०
७७) परोत्कर्षादेरसूयावज्ञादिकृत् ॥५२॥ १५ परस्य सौभाग्यैश्वर्यविद्यादिभिरुत्कर्षादादिशब्दादपराधमुहुर्तेषादिभ्यश्चाक्षमरूपासूया । तामवज्ञानुकुटिक्रोधसेर्योक्त्यालोकितदोषोपवर्णनादिभिर्वर्णयेत् । यथा
वृद्धास्ते न विचारणीयचरितास्तिष्ठन्तु हुं वर्तते सुन्दस्त्रीदमनेऽप्यखण्डयशसो लोके महान्तो हि ते।। यानि त्रीणि कुतोमुखान्यपि पदान्यासन् खरायोधने यद्वा कौशलमिन्द्रसूनुनिधने तत्राप्यभिज्ञो जनः ॥१५४।।
[उत्तरराम० ५.३५] ७८) व्याध्यभिघाताभ्यां मृतिर्हिक्काकार्ष्यादिकृत् ॥५३॥
व्याधिर्जरादिः प्रतीतः, सर्पविषशस्त्रगजादिसंभवोऽभिघातस्ताभ्यां मृतेः प्रागवस्था मृतिः । साक्षान्मृतावनुभावाभावात् । तत्र व्याधिजां मृतिं हिक्कावासाङ्गभङ्गाक्षिमीलनाद्यैः, अभिघातजां तु काय॑वेपथु२५ दाहहिक्काफेनाङ्गभङ्गजडतामरणादिभिर्वर्णयेत्। यथा
स गतः क्षितिमुष्णशोणितानॊ खुरदंष्ट्राग्रनिपातदारिताश्मा। असुभिः क्षणमीक्षितेन्द्रसूनुर्विहितामर्षगुरुध्वनिर्निरासे ॥१५५॥
[किरात० १३.३१]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org