SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ ९८ [काव्यानुशासनम् यथा १० लाक्षागृहानलविषानसभाप्रवेशैः प्राणेषु चित्तनिचयेषु च नः प्रहृत्य । आकृष्टपाण्डववधूपरिधानकेशाः स्वस्था भवन्ति मयि जीवति धार्तराष्ट्राः ॥१४८॥ [वेणी. १.८] ७२) निर्घातादेस्त्रासोऽङ्गसंक्षेपादिकृत् ॥४७॥ निर्घातगर्जितभूपर्वतकम्पशिलोल्काशनिविद्युत्पातरक्षःस्थूलपशूत्कृष्टादिभ्यश्चेतश्चमत्कृतिरूपत्रासो भयात्पूर्वापरविचारवतो भिन्न एव। सोऽङ्गसंक्षेपस्तम्भरोमोद्गमगद्गदप्रलयोत्कम्पनिःस्पन्दवीक्षितैर्वर्ण्यः । यथा परिस्फुरन्मीनविघट्टितोरवः सुराङ्गनास्त्रासविलोलदृष्टयः । उपाययुः कम्पितपाणिपल्लवाः सखीजनस्यापि विलोकनीयताम् ॥१४९॥ [किरात. ८.४५] ७३) ग्रहादेरपस्मारः कम्पादिकृत् ॥४८॥ ग्रहभूतदेवयक्षपिशाचब्रह्मराक्षसशून्यारण्यश्मशानसेवनोच्छिष्टगमनधातुवैषम्यादेरावेशरूपोऽपस्मारः । तं १५ कम्पितस्फुरितस्विन्नधावितश्वसितभूमिपतनारावमुखफेनादिभिर्वर्णयेत् । अयं च प्राय आभासेष्वेव शोभते । आश्लिष्टभूमिं रसितारमुच्चैर्लोलद्भुजाकारबृहत्तरङ्गम् । फेनायमानं पतिमापगानामसावपस्मारिणमाशशङ्के ॥१५०॥ [शिशुपाल. ३.७२] ७४) रोगादेर्निर्वेदो रुदितादिकृत् ॥४९।। रोगाधिक्षेपताडनदारिद्रयेष्टवियोगावमानतत्त्वज्ञानादिभ्यः स्वाववमाननारूपो निर्वेदः । स रुदितश्वसितानुपादेयतादिभिर्वर्ण्यते । यथा किं करोमि क्व गच्छामि कमुपैमि दुरात्मना । दुर्भरेणोदरेणाहं प्राणैरपि विडम्बितः ॥१५१॥ यथा ७५) उत्पातादिभ्य आवेगो विस्मयादिकृत् ॥५०॥ उत्पातवातवर्षाग्निगजप्रियाप्रियश्रवणव्यसनादिभ्यः संभ्रम आवेगः । तं विस्मयावगुण्ठनच्छन्नश्रयणधूमान्ध्यत्वरितापसर्पणपुलकविलापसनहनादिभिर्यथासंख्य वर्णयेत् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001585
Book TitleKavyanushasanam
Original Sutra AuthorHemchandracharya
AuthorT S Nandi, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year2000
Total Pages548
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Literature, & Kavya
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy