________________
यथा
[काव्यानुशासनम् हंस प्रयच्छ मे कान्तां गतिस्तस्यास्त्वया हृता । संभावितैकदेशेन देयं यदभियुज्यते ॥१४४॥
[विक्रमार्वशीय. ४.१७] ६९) प्रहारादेर्मोहो भ्रमणादिकृत् ॥४४॥
प्रहारमत्सरभयदैवोपघातपूर्ववैरस्मरणत्रासनादिभ्यश्चित्तस्य मूढत्वं मोहः । मोहस्य प्रागवस्थापि मोहशब्देनोच्यते। तंभ्रमणदेहघूर्णनपतनसर्वेन्द्रियप्रमोहवैचित्र्यादिभिर्वर्णयेत् । यथा
तीव्राभिषङ्गप्रभवेण वृत्तिं मोहेन संस्तम्भयतेन्द्रियाणाम् । अज्ञातभर्तृव्यसना मुहूर्तं कृतोपकारेव रतिर्बभूव ॥१४५॥
[कुमार० ४.७३] __१० सुखजन्मापि मोहो भवति । यथा
कान्ते तल्पमुपागते विगलिता नीवी स्वयं बन्धनात् तद्वासः श्लथमेखलागुणधृतं किंचिनितम्बे स्थितम् । एतावत्सखि वेछि सांप्रतमहं तस्याङ्गसङ्गे पुनः कोऽसौ कास्मि रतं तु किं कथमिति स्वल्पापि मे न स्मृतिः ॥१४६।।
[अमरु० १०१] ७०) दारिद्रयादेश्चिन्ता संतापादिकृत् ॥४५॥
दारिद्रयेष्टद्रव्यापहारैश्वर्यभ्रंशादिभ्यो ध्यानं चिन्ता । सा च स्मृतेरन्या । ग्रसनाददनवत्, खेलनाद्गमनवच्च । तां संतापशून्यचित्तत्वकार्यश्वासाधोमुखचिन्तनादिभिर्वर्णयेत् । सा च वितर्कात्ततो वा वितर्क इति वितर्कात्पृथग्भवति चिन्ता । यथा
पश्यामि तामित इतश्च पुरश्च पश्चादन्तर्बहिः परित एव विवर्तमानाम् । उद्बुद्धमुग्धकनकाजनिभं वहन्तीमासज्य तिर्यगपवर्तितदृष्टिवक्त्रम् ॥१४७।।
[मालतीमाधव १.४०] २५ ७१) आक्षेपादेरमर्षः स्वेदादिकृत् ॥४६॥
विद्यैश्वर्यबलाधिककृतेभ्य आक्षेपावमानादिभ्यः प्रतिचिकीर्षारूपोऽमर्षः । स च स्वेदध्यानोपायान्वेषणशिरःकम्पाधोमुखविचिन्तनादिभिर्वर्णयेत्।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org