SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ ९४ ५ १० १५ २० ६५) व्याध्यादेग्र्लानिर्वैवर्ण्यादिकृत् ॥४०॥ व्याधिमनस्तापनिधुवनोपवासक्षुत्पिपासाध्वलङ्घननिद्राच्छेदातिपानतपोजराकलाभ्यासादिभ्यो बला ग्लानिस्तां वैवर्ण्यक्षामनेत्रकपोलोक्तिश्लथाङ्गत्वप्रवेपनदीनसंचारानुत्साहादिभिर्वर्णयेत् । यथाकिसलयमिव मुग्धं बन्धनाद्विप्रलूनं हृदयकुसुमशोषी दारुणो दीर्घशोकः । ग्लपयति परिपाण्डु क्षाममस्याः शरीरं शरदिज इव धर्मः केतकीगर्भपत्रम् ॥१४१|| [उत्तरराम० ३.५] ६६) दौर्गत्यादेर्दैन्यममृजादिकृत् ॥४१॥ दौर्गत्यमनस्तापादिभ्योऽनौजस्यं दैन्यम् । तन्मृजात्यागगुर्वङ्गताशिरः प्रावरणादिभिर्वर्णयेत् । यथाअस्मान्साधु विचिन्त्य संयमधनानुच्चैः कुलं चात्मनस्त्वय्यस्याः कथमप्यबान्धवकृतां प्रेमप्रवृत्तिं च ताम् । सामान्यप्रतिपत्तिपूर्वकमियं दारेषु दृश्या त्वया भाग्याधीनमतः परं न खलु तत् स्त्रीबन्धुभिर्याच्यते ॥१४२॥ [काव्यानुशासनम् Jain Education International ६७) व्यायामादेः श्रमोऽङ्गभङ्गादिकृत् ॥४२॥ व्यायामाध्वगत्यादिभ्यो मनः शरीरखेदः श्रमः । सोऽङ्गभङ्गमर्दनमन्दक्रमास्यविकूणनादिभिर्वर्णयेत् । यथा अलसलुलितमुग्धान्यध्वसंतापखेदादशिथिलपरिरम्भैर्दत्तसंवाहनानि । मृदुमृदितमृणालीदुर्बलान्यङ्गकानि मुरसि मम कृत्वा यत्र निद्रामवाप्ता ॥ १४३ ॥ [ शाकुन्तल ४.१६] [ उत्तरराम० १.२४] ६८) इष्टवियोगादेरुन्मादोऽनिमित्तस्मितादिकृत् ॥४३॥ इष्टवियोगधननाशाभिघातवातसन्निपातग्रहादिभ्यश्चित्तविप्लव उन्मादः । तमनिमित्तस्मितरुदितोत्क्रुष्टनृत्त २५ गीतप्रधावितोपवेशनोत्थानासंबद्धप्रलापभस्मपांशूद्भूलननिर्माल्यचीरघटवक्त्रशरावाभरणादिभिर्वर्णयेत् । For Private & Personal Use Only www.jainelibrary.org
SR No.001585
Book TitleKavyanushasanam
Original Sutra AuthorHemchandracharya
AuthorT S Nandi, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year2000
Total Pages548
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Literature, & Kavya
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy