SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ ९२ १५ ६२) विद्यादेर्गर्वोऽसूयादिकृत् ॥३७॥ विद्याबलकुलैश्वर्यवयोरूपधनादिभ्यः परावज्ञा गर्वः । तमसूयामर्षपारुष्योपहासगुरुलङ्घनाधिक्षेपनेत्रगात्र१० विकृत्यनुत्तरदानशून्यावलोकनाभाषणैर्वर्णयेत् । यथा २० [काव्यानुशासनम् प्रियागमनबन्धुहर्षदेवगुरुराजभर्तृप्रसादभोजनाच्छादनधनलाभोपभोगमनोरथावाप्त्यादिभ्यश्चेतः प्रसादो हर्षः । तं च रोमाञ्चाश्रुस्वेदनयनवदनप्रसादप्रियभाषणादिभिर्वर्णयेत् । यथाआयाते दयिते मरुस्थलभुवामुत्प्रेक्ष्य दुर्लङ्घयतां गेहिन्या परितोऽथ बाष्पसलिलामासज्य दृष्टिं मुखे । दत्त्वा पीलुशमीकरीरकवलान्स्वेनाञ्चलेनादरादुन्मृष्टं करभस्य केसरसटाभाराग्रलग्नं रजः ॥१३७॥ २५ [ सुभाषितावल्यो २०७५ अद्भुतपुण्यस्य ] ब्राह्मणातिक्रमत्यागो भवतामेव भूतये । जामदग्न्यस्तथा मित्रमन्यथा दुर्मनायते ॥ १३८ ॥ Jain Education International ६३) चौर्यादेरौग्यं वधादिकृत् ॥३८॥ चौर्यद्रोहासत्प्रलापादिभ्यश्चण्डत्वमौग्यं तद्बधबन्धताडननिर्भर्त्सनादिभिर्वर्णयेत् । यथाउत्कृत्योत्कृत्य गर्भानपि शकलयतः क्षत्रसंतानरोषा - दुद्दामस्यैकविंशत्यवधि विशसतः सर्वतो राजवंशान् । पित्र्यं तद्रक्तपूर्णहृदसवनमहानन्दमन्दायमान क्रोधाः कुर्वतो मे न खलु न विदितः सर्वभूतैः स्वभावः ॥१३९|| [महावीरचरित २.१०] ६४) शब्दादेः प्रबोधो जृम्भादिकृत् ॥३९॥ शब्दस्पर्शस्वप्नान्तस्वप्नजल्पननिद्राच्छेदाहारपरिणामादिभ्यो विनिद्रत्वं प्रबोधः । स जृम्भणाक्षिमर्दनभुजक्षेपाङ्गुलिस्फोटनशय्यात्यागग्रीवाङ्गवलनादिभिर्वर्ण्यते । यथा प्रत्यग्रोन्मेषजिह्मा क्षणमनभिमुखी रत्नदीपप्रभाणामात्मव्यापारगुर्वी जनितजललवा जृम्भणैः साङ्गभङ्गः । नागाङ्कं मोक्तुमिच्छोः शयनमुरु फणाचक्रवालोपधानं निद्राच्छेदाभिताम्रा चिरमवतु हरेर्दृष्टिराकेकरा वः ॥ १४०|| For Private & Personal Use Only [ महावीरचरित २.४८] [ मुद्राराक्षस ३.२१] www.jainelibrary.org
SR No.001585
Book TitleKavyanushasanam
Original Sutra AuthorHemchandracharya
AuthorT S Nandi, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year2000
Total Pages548
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Literature, & Kavya
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy