SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ [काव्यानुशासनम् यथा १० एवंवादिनि देवर्षों पार्श्वे पितुरधोमुखी। लीलाकमलपत्राणि गणयामास पार्वती ॥१३३।। [कुमार० ६.८४] ५ ५८) चौर्यादेः स्वपरयोः शङ्का पार्शविलोकनादिकृत् ॥३२॥ चौर्यपारदार्यादेविरुद्धाचरणादनिष्टोत्प्रेक्षा शङ्का । सा च कदाचित् स्वस्मिन् यदा समापराधयोरात्मपरयोः परो राज्ञा दण्डयते। कदाचित्परस्मिन्यदा विकाराकुलतया कृतदोषत्वेन परः संभाव्यते। सा च पार्श्वविलोकनमुखौष्ठकण्ठशोषणगात्रप्रकम्पस्वरास्यवर्णभेदावगुण्ठनादिभिर्वर्ण्यते। स्वस्मिन् यथा दूराद्दवीयो धरणीधराभं यस्ताडकेयं तृणवद् व्यधूनोत् । हन्ता सुबाहोरपि ताडकारिः स राजपुत्रो हृदि बाधते माम् ॥१३४।। [महावीरचरित २.१] परस्मिन् यथा-समुद्रदत्तस्य नन्दयन्त्यामन्यानुरागशङ्का..., दुर्योधनस्य वा भानुमत्याम् । [वेणी. २] ५९) रागादेश्चापलं वाक्पारुष्यादिकृत् ॥३४॥ रागद्वेषमात्सर्यामर्षेादिभ्यश्चेतोनवस्थानं चापलम् । अविमृश्य कार्यकरणमिति यावत् । तच्च १५ वाक्पारुष्यनिर्भर्त्सनप्रहारवधबन्धादिभिर्वर्णयेत् । यथा कश्चित्कराभ्यामुपगूढनालमालोलपत्राभिहतद्विरेफम् । रजोभिरन्तः परिवेशबन्धि लीलारविन्दं भ्रमयांचकार ॥१३५।। [रघु० ६.१३] ६०) श्रमादेरालस्यं निद्रादिकृत् ॥३५॥ २० श्रमसौहित्यरोगगर्भस्वभावादिभ्यः पुरुषार्थेष्वनादर आलस्यम् । तच्च निद्रातन्द्रासर्वकर्मविद्वेषशयनासनादिना वर्णयेत् । यथा चलति कथंचित्पृष्टा यच्छति वाचं कदाचिदालीनां । आसितुमेव हि मनुते गुरुगर्भभरालसा सुतनुः ।।१३६।। [धनिकस्य, दशरूपकावलोके (प्र. ४. सू. २७)] २५ ६१) प्रियागमनादेर्हर्षो रोमाञ्चादिकृत् ॥३६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001585
Book TitleKavyanushasanam
Original Sutra AuthorHemchandracharya
AuthorT S Nandi, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year2000
Total Pages548
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Literature, & Kavya
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy