SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ ८४ [काव्यानुशासनम् ४७) सदृशदर्शनादेः स्मृतिर्भूक्षेपादिकृत् ॥२२॥ सदृशदर्शनस्पर्शनश्रवणाभ्यासप्रणिधानादिभ्यः सुखदुःखहेतूनां स्मरणं स्मृतिः । तां भ्रूक्षेपशिरःकम्पमुखोन्नमनशून्यावलोकनाङ्गुलीभङ्गादिभिर्वर्णयेत् । यथा मैनाकः किमयं रुणद्धि गगने मन्मार्गमव्याहतं शक्तिस्तस्य कुतः स वज्रपतनाद्रीतो महेन्द्रादपि । तार्क्ष्यः सोऽपि समं निजेन विभुना जानाति मां रावणं आ ज्ञातं स जटायुरेष जरसा क्लिष्टो वधं वाञ्छति ॥१२३।। [हनुमन्नाटक ४.९] ४८) शास्त्रचिन्तादेर्मतिः शिष्योपदेशादिकृत् ॥२३॥ शास्त्रचिन्तनोहापोहादिभ्योऽर्थनिश्चयो मतिः । तां शिष्योपदेशार्थविकल्पनसंशयच्छेदादिभिर्वर्णयेत् । १० यथा __ असंशयं क्षत्रपरिग्रहक्षमा यदार्यमस्यामभिलाषि मे मनः । / सतां हि संदेहपदेषु वस्तुषु प्रमाणमन्तःकरणप्रवृत्तयः ॥१२४॥ शाकुन्तल १.१९] ४९) अकार्यकरणज्ञानादेर्वीडा वैवादिकृत् ॥२४॥ अकार्यकरणज्ञानगुरुव्यतिक्रमप्रतिज्ञाभङ्गादेश्चेतःसंकोचो व्रीडा। तां वैवाधोमुखविचिन्तनभूविलेखनवस्त्राङ्गुलीयकर्णस्पर्शननखनिस्तोदनादिभिर्वर्णयेत् । यथा दर्पणे च परिभोगदर्शिनी पृष्ठतः प्रणयिनो निषेदुषः ।। - वीक्ष्य बिम्बमनुबिम्बमात्मनः कानि कानि न चकार लज्जया ॥१२५॥ __ [कुमार० ८.११] ५०) इष्टानिष्टदर्शनादेर्जाड्यं तूष्णीभावादिकृत् ॥२५॥ इष्टानिष्टदर्शनश्रवणव्याध्यादिभ्योऽर्थाप्रतिपत्तिर्जाड्यम्। तत्तूष्णीभावानिमिषनयननिरीक्षणादिभिर्वर्णयेत् । यथा एवमालि निगृहीतसाध्वसं शङ्करो रहसि सेव्यतामिति । सा सखीभिरुपदिष्टमाकुला नास्मरत् प्रमुखवर्तिनि प्रिये ॥१२६।। [कुमार० ८.५] Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001585
Book TitleKavyanushasanam
Original Sutra AuthorHemchandracharya
AuthorT S Nandi, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year2000
Total Pages548
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Literature, & Kavya
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy