________________
८२
५
१०
१५
२०
२५
अत्र मानस्य प्रशमः ।
संधिर्यथा
उत्सिक्तस्य तपःपराक्रमनिधेरभ्यागमादेकतः सत्सङ्गप्रियता च वीररभसोत्फालश्च मां कर्षतः ।
वैदेहीपरिरम्भ एष च मुहुश्चैतन्यमामीलयन् आनन्दी हरिचन्दनेन्दुशिशिरः स्निग्धो रुणद्धयन्यतः ॥१२०॥
अत्रावेगहर्षयोः सन्धिः ।
शबलत्वं यथा
Jain Education International
क्वाकार्यं शशलक्ष्मणः क्व च कुलं भूयोऽपि दृश्येत सा प्रशमा मे श्रुतमहो कोपेऽपि कान्तं मुखम् । किं वक्ष्यन्त्यपकल्मषाः कृतधियः स्वप्नेऽपि सा दुर्लभा चेतः स्वास्थ्यमुपैहि कः खलु युवा धन्योऽधरं धास्यति ॥ १२१ ॥ [सुभाषितावल्यां कालिदासस्य (१३४३)] अत्र वितर्कौत्सुक्यमतिस्मरणशङ्कादैन्यधृतिचिन्तानां शबलत्वम् । विविधमाभिमुख्येन स्थायिधर्मोपजीवनेन स्वधर्मार्पणेन च चरन्तीति व्यभिचारिणः । भावा इत्यनुवर्तते । संख्यावचनं नियमार्थं तेनान्येषामत्रैवान्तर्भावः । तद्यथा - दम्भस्यावहित्थे, उद्वेगस्य निर्वेदे, क्षुत्तृष्णादेर्लानौ । एवमन्यदप्यूह्यम्। अन्ये त्वाहुः - एतावत्स्वेव सहचारिषु अवस्थाविशेषेषु प्रयोगे प्रदर्शितेषु स्थायी चर्वणायोग्यो भवति ।
एषां विभावानुभावानाह
४६) ज्ञानादेर्धृतिरव्यग्रभोगकृत् ॥२१॥
ज्ञानबाहुश्रुत्यगुरुभक्तितपःसेवाक्रीडार्थलाभादिविभावा धृतिः संतोषः । सा च लब्धानामुपभोगेन नष्टानामननुशोचनेन च योऽव्यग्रो भोगस्तं करोति । तेनानुभावेन धृतिं वर्णयेदित्यर्थः । यथा
वयमिह परितुष्टा वल्कलैस्त्वं च लक्ष्म्या
सम इह परितोषे निर्विशेषा विशेषाः ।
[काव्यानुशासनम्
[महावीरचरित २२]
स तु भवतु दरिद्रो यस्य तृष्णा विशाला मनसि च परितुष्टे कोऽर्थवान् को दरिद्रः || १२२॥
For Private & Personal Use Only
[ भर्तृहरि : वैराग्यशतक ५३ ]
www.jainelibrary.org