________________
[काव्यानुशासनम् तत्र धृतिः संतोषः । स्मृतिः स्मरणम् । मतिरर्थनिश्चयः । व्रीडा चित्तसंकोचः । जाड्यमर्थाप्रतिपत्तिः । विषादो मनःपीडा । मद आनन्दसंमोहसंभेदः । व्याधिर्मनस्तापः । निद्रा मनःसंमीलनम् । सुप्तं निद्राया गाढावस्था। औत्सुक्यं कालाक्षमत्वम् । अवहित्थमाकारगुप्तिः । शङ्कानिष्टोत्प्रेक्षा । चापलं चेतोऽनवस्थानम् । आलस्यं पुरुषार्थेष्वनादरः । हर्षश्चेतःप्रसादः । गर्वः परावज्ञा । औग्यं चण्डत्वम् । प्रबोधो विनिद्रत्वम् । ग्लानिर्बलापचयः । दैन्यमनौजस्यम् । श्रमः खेदः । उन्मादश्चित्तस्य विप्लवः । मोहो मूढत्वम् । चिन्ता ध्यानम् । अमर्षः प्रतिचिकीर्षा । त्रासश्चित्तचमत्कारः । अपस्मार आवेशः । निर्वेदः स्वावमाननम् । आवेग: संभ्रमः । वितर्कः संभावना । असूयाऽक्षमा । मृतिम्रियमाणता । एते च स्थित्युदयप्रशमसन्धिशबलत्वधर्माणः । स्थितिर्यथा
तिष्ठेत्कोपवशात्प्रभावपिहिता दीर्घ न सा कुप्यति स्वर्गायोत्पतिता भवेन्मयि पुनर्भावार्द्रमस्या मनः । तां हर्तुं विबुधद्विषोऽपि न च मे शक्ताः पुरोवर्तिनी सा चात्यन्तमगोचरं नयनयोर्यातेति कोऽयं विधिः ॥११७।।
[विक्रमोर्वशीय ४.२] अत्र विप्रलम्भरससद्भावेऽपि इयति वितर्कस्थितिचमत्कारकृत आस्वादातिशयः । उदयो यथा
याते गोत्रविपर्यये श्रुतिपथं शय्यामनुप्राप्तया निध्यातं परिवर्तनं पुनरपि प्रारब्धमङ्गीकृतम् । भूयस्तत्प्रकृतं कृतं च शिथिलक्षिप्तैकदोर्लेखया तन्वङ्गया न तु पारितः स्तनभरो नेतुं प्रियस्योरसः ॥११८।।
[अमरुशतक १५१] अत्र मानस्योदयः । प्रशमो यथा
दृष्टे लोचनवन्मनाङ्मुकुलितं पार्श्वस्थिते वक्त्रवन्न्यग्भूतं बहिरासितं पुलकवत्स्पर्श समातन्वति । नीवीबन्धवदागतं शिथिलतां संभाषमाणे ततो मानेनापसृतं ह्रियेव सुदृशः पादस्पृशि प्रेयसि ।।११९।।
[अमरुशतक १६०]
२०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org