SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ ७४ [काव्यानुशासनम् ननु च राजादिः किमिति गुर्वादिभ्यः कृतकं भयं दर्शयति, दर्शयित्वा किमिति मृदून करकम्पादीन्दर्शयति, किमिति च भय एव कृतकत्वमुक्तं, सर्वस्य हि कृतकत्वं संभवति-यथा वेश्या धनार्थिनी कृतकां रतिमादर्शयति । उच्यते । भये हि प्रदर्शिते गुरुर्विनीतं तं जानाति मृदुचेष्टिततया चाधमप्रकृतिमेनं न गणयति । कृतकरत्यादेश्वोपदिष्टान्न काचित्पुरुषार्थसिद्धिः । यत्र तु राजानः परानुग्रहाय ५ क्रोधविस्मयादि दर्शयन्ति तत्र व्यभिचारितैव, तेषां न स्थायितेति । बीभत्समाह४१) अहृद्यदर्शनादिविभावाऽङ्गसंकोचाद्यनुभावापस्मारादिव्यभिचारिणी जुगुप्सा ___ बीभत्सः ॥१६॥ अहृद्यानामुद्वान्तव्रणपूतिकृमिकीटादीनां दर्शनश्रवणादिविभावा अङ्गसङ्कोचहल्लासनासामुखविकूण१० नाच्छादननिष्ठीवनाद्यनुभावा अपरमारोग्यमोहगदादिव्यभिचारिणी जुगुप्सा स्थायिभावरूपा चर्वणीयतां गता बीभत्सः । यथा उत्कृत्योत्कृत्य कृत्तिं प्रथममथपृथूच्छोफभूयांसि मांसान्यंसस्फिक्पृष्ठपिण्डाद्यवयवसुलभान्युग्रपूतीनि जग्ध्वा । आत्तस्नाय्वन्त्रनेत्रात्प्रकटितदशनः प्रेतरङ्कः करङ्कादङ्कस्थादस्थिसंस्थं स्थपुटगतमपि क्रव्यमव्यग्रमत्ति ॥११५।। [मालतीमाधव ५.१६] अद्भुतमाह४२) दिव्यदर्शनादिविभावो नयनविस्ताराद्यनुभावों हर्षादिव्यभिचारी विस्मयोऽद्भुतः॥१७॥ दिव्यदर्शनेप्सितमनोरथावाप्त्युपवनदेवकुलादिगमनसभाविमानमायेन्द्रजालातिशायिशिल्पकर्मादिविभावो २० नयनविस्तारानिमिषप्रेक्षणरोमाञ्चाशुस्वेदसाधुवाददानहाहाकारचेलाङ्गुलिभ्रमणाद्यनुभावो हर्षावेगजडतादिव्यभिचारी चित्तविस्तारात्मा विस्मयः स्थायिभावश्चर्वणीयतां गतोऽद्भुतो रसः । यथा कृष्णेनाम्ब गतेन रन्तुमधुना मृद्भक्षिता स्वेच्छया सत्यं कृष्ण क एवमाह मुशली मिथ्याम्ब पश्याननम् । व्यादेहीति विकाशितेऽथ वदने माता समस्तं जगद्दृष्ट्वा यस्य जगाम विस्मयपदं पायात्स व: केशवः ॥११६।। [सुभाषितावल्यां चन्दकस्य (४०)] २५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001585
Book TitleKavyanushasanam
Original Sutra AuthorHemchandracharya
AuthorT S Nandi, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year2000
Total Pages548
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Literature, & Kavya
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy