SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ ६८ ५. १० १५ २० २५ हास्यमाह ३४) विकृतवेषादिविभावो नासास्पन्दनाद्यनुभावो निद्रादिव्यभिचारी हो हास्यः ॥९॥ देशकालवयोवर्णवैपरीत्याद्विकृताः केशबन्धादयो वेषाः । 'आदि' शब्दान्नर्तनान्यगत्याद्यनुकरणासत्प्रलापभूषणादीनि विभावा यस्य सः, तथा नासौष्ठकपोलस्पन्दनदृष्टिव्याकोशाकुञ्चनस्वेदास्यरागपार्श्वग्रहणाद्यनुभावो निद्रावहित्थत्रपालस्यादिव्यभिचारी हासः स्थायी चर्वणीयत्वमागतो हास्यः । स चात्मस्थः परस्थश्च । तत्रात्मस्थमाह ३५) उत्तममध्यामाधमेषु स्मितविहसितापहसितैः स आत्मस्थस्त्रेधा ॥ १०॥ स इतिहासः । यद् भरत: (१०) ईषद्विकसितैर्गण्डैः कटाक्षैः सौष्ठवान्वितैः । अलक्षितद्विजं धीरमुत्तमानां स्मितं भवेत् ॥ आकुञ्चिताक्षिण्डं यत्सस्वनं मधुरं तथा । कालागतं सास्यरागं तद्वै विहसितं भवेत् ॥ अस्थानहसितं यत्तु साम्रनेत्रं तथैव च । उत्कम्पितांसकशिरस्तच्चापहसितं भवेत् ॥ Jain Education International [काव्यानुशासनम् परस्थमाह ३६) एतत्संक्रमजैर्हसितोपहसितातिहसितैः परस्थोऽपि ॥। ११॥ एतेषां स्मितादीनां संक्रान्त्या जातैर्यथासंख्येनोत्तमादिषु । यद् भरतः [ नाट्यशास्त्र ६. ५४, ५६, ५८ ] (११) उत्फुल्लानननेत्रं तु गण्डैर्विकसितैरथ । किंचिल्लक्षितदन्तं च हसितं तद्विधीयते ॥ उत्फुल्लनासिकं यत्तु जिह्मदृष्टिनिरीक्षतं । निकुञ्चितांसकशिरस्तच्चोपहसितं भवेत् ॥ संरब्धसाम्रनेत्रं च विक्रुष्टस्वरमुद्धतम् । करोपगूढपार्श्वं च तच्चातिहसितं भवेत् ॥ [ नाट्यशास्त्र ६. ५५, ५७, ५९] For Private & Personal Use Only www.jainelibrary.org
SR No.001585
Book TitleKavyanushasanam
Original Sutra AuthorHemchandracharya
AuthorT S Nandi, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year2000
Total Pages548
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Literature, & Kavya
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy