________________
[काव्यानुशासनम्
५
उभयस्य यथा
पणयकुविआण दुण्ह वि अलिअपसुत्ताण माणइत्ताण । निच्चलनिरुद्धणीसासदिण्णकण्णाण को मल्लो ॥१०५।।
[गाथासप्तशती १.२७] ईर्ष्यामानः स्त्रीणामेव यथा
संध्यां यत्प्रणिपत्य लोकपुरतो बद्धाञ्जलिर्याचसे धत्से यच्च नदीं विलज शिरसा तच्चापि सोढं मया। श्रीर्जातामृतमन्थने यदि हरेः कस्माद्विषं भक्षितं मा स्त्रीलम्पट मां स्पृशेत्यभिहितो गौर्या हरः पातु वः ॥१०६॥
प्रवासविप्रलम्भमाह
___३३) कार्यशापसंभ्रमैः प्रवासः ॥८॥ प्रवासो भिन्नदेशत्वम् । तत्र कार्यहेतुकः प्रवासो यथा
याते द्वारवीं तदा मधुरिपौ तद्दत्तझम्पानतां कालिन्दीतटरूढवञ्जुललतामालिङ्गच सोत्कण्ठया । तद्गीतं गुरुबाष्पगद्गदगलत्तारस्वरं राधया येनान्तर्जलचारिभिर्जलचरैरप्युत्कमुत्कूजितम् ॥१०७।।
२०
शापहेतुकप्रवासे मेघदूतकाव्यमेवोदाहरणम् । संभ्रमो दिव्यमानुषविङ्वरादुत्पातवातादिविप्लवात्परचक्रादिविप्लवाद्वा व्याकुलत्वम् । यथा
मकरन्दयुद्धसाहाय्यं कर्तुं गतस्य माधवस्य 'हा प्रिये हा मालति किमपि किमपि शङ्के मङ्गलेभ्यो यदन्यद् विरमतु परिहासश्चण्डि पर्युत्सुकोऽस्मि । कलयसि कलितोऽहं वल्लभे देहि वाचं भ्रमति हृदयमन्तर्विह्वलं निर्दयासि ॥१०८॥'
[मालतीमाधव ८.१३]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org