SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ ६४ [काव्यानुशासनम् तत्राभिलाषविप्रलम्भमाह ३१) दैवपारवश्याभ्यामाद्यो द्वेधा ॥६॥ आद्योऽभिलाषविप्रलम्भः । स दैवाद्यथा शैलात्मजापि पितरुच्छिरसोऽभिलाषं व्यर्थं समर्थ्य ललितं वपुरात्मनश्च । '/ सख्योः समक्षमिति चाधिकजातलज्जा शून्या जगाम भवनाभिमुखी कथंचित् ॥१०१॥ [कुमार० ४.७५] पारवश्याद्यथा १० स्मरनवनदीपूरेणोढा मुहुर्गुरुसेतुभियदपि विधृता दुःखं तिष्ठत्यपूर्णमनोरथाः । तदपि लिखितप्रख्यैरङ्गैः परस्परमुन्मुखा नयननलिनीनालानीतं पिबन्ति रसं प्रियाः ॥१०२।। [अमरु० १०४]] प्रतिज्ञाभङ्गभीत्याऽपि यो न सङ्गः कादम्बर्याश्चन्द्रापीडेन सोऽपि पारवश्यज एव । मानविप्रलम्भमाह ३२) प्रणयेाभ्यां मानः ॥७॥ प्रेमपूर्वको वशीकारः प्रणयस्तद्भङ्गे मानः प्रणयमानः । स च स्त्रियाः पुंस उभयस्य वा । स्त्रिया यथा प्रणयकुपितां दृष्ट्वा देवीं ससंभ्रमविस्मृतस्त्रिभुवनगुरुर्भीत्या सद्यः प्रणामपरोऽभवत् । नमितशिरसो गङ्गालोके तया चरणाहताववतु भवतस्त्र्यक्षस्यैतद्विलक्षमवस्थितम् ॥१०३।। ___ [वाक्पतिराजदेव(श्रीमुञ्ज)] पुंसो यथा अस्मिन्नेव लतागृहे त्वमभवस्तन्मार्गदत्तेक्षणः सा हंसैः कृतकौतुका चिरमभूदुगोदावरीसैकते । आयान्त्या परिदुर्मनायितमिव त्वां वीक्ष्य बद्धस्तया कातर्यादरविन्दकुड्मलनिभो मुग्धः प्रणामाञ्जलिः ॥१०४॥ [उत्तररामचरित ३.३८] २५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001585
Book TitleKavyanushasanam
Original Sutra AuthorHemchandracharya
AuthorT S Nandi, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year2000
Total Pages548
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Literature, & Kavya
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy