SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ [काव्यानुशासनम् अत एव तद्दशाद्वयमीलन एव सातिशयश्चमत्कारः । यथा एकस्मिञ् शयने परामुखतया वीतोत्तरं ताम्यतोरन्योन्यं हृदयस्थितेप्यनुनये संरक्षतोर्गौरवम् । दम्पत्योः शनकैरपाङ्गवलनान्मिश्रीभवच्चक्षुषोर्भग्नो मानकलिः सहासरभसव्यावृत्तकण्ठग्रहम् ।।९८।। [अमरु० २३] सैषा विभावादिसामग्री वस्तुतः प्रबन्ध एव प्रथते । मुक्तकेषु तु काल्पनिक्येव । तत्र संभोगभाह२९) सुखमयधृत्यादिव्यभिचारी रोमाञ्चाद्यनुभावः संभोगः ॥४॥ लज्जाद्यैर्निषिद्धान्यपीष्टानि दर्शनादीनि कामिनौ यत्र संभुङ्क्तः स संभोगः । स च सुखमयधृत्यादिव्यभिचारिरोचितो रोमाञ्चस्वेदकम्पाश्रुमेखलास्खलनश्वसितसाध्वसकेशबन्धनवस्त्रसंयमनवस्त्राभरणमाल्यादिसम्यग्निवेशनविचित्रेक्षणचाटुप्रभृतिवाचिककायिकव्यापारलक्षणानुभावः । स च परस्परावलोकनालिङ्गनचुम्बनपानाद्यनन्तभेदः । यथा दृष्ट्वैकासनसंगते प्रियतमे पश्चादुपेत्यादरादेकस्या नयने निमील्य विहितक्रीडानुबन्धच्छलः । ईषद्वक्रितकन्धरः सपुलकः प्रेमोल्लसन्मानसामन्तर्हासलसत्कपोलफलकां धूर्तोऽपरां चुम्बति ॥१९॥ [अमरु० १९] विप्रलम्भमाह३०) शङ्कादिव्यभिचारी संतापाद्यनुभावोऽभिलाषमानप्रवासरूपो विप्रलम्भः ॥५।। संभोगसुखास्वादलोभेन विशेषेण प्रलभ्यते आत्माऽत्रेति विप्रलम्भः । स च शङ्कौत्सुक्यमदग्लानिनिद्रासुप्तबोधचिन्तासूयाश्रमनिर्वेदमरणोन्मादजडताव्याधिस्वप्नापस्मारादिव्यभिचारी संतापजागरकार्यप्रलापक्षामनेत्रवचोवक्रतादीनसंचरणानकारकतिलेखलेखनवाचनस्वभावनिह्नववार्ताप्रश्नस्नेहनिवेदनसात्त्विकानभवनशीतसेवनमरणोद्यमसंदेशाद्यनुभावस्त्रिधा, अभिलाषामानप्रवादभेदात् । करुणविप्रलम्भस्तु करुण एव । यथा ___ हृदये वससीति मत्प्रियं यदवोचस्तदैमि कैतवम् । उपचारपदं न चेदिदं त्वमनङ्गः कथमक्षता रतिः ॥१००॥ [कुमार० ४.९] इत्यादि रतिप्रलापेषु । २० २५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001585
Book TitleKavyanushasanam
Original Sutra AuthorHemchandracharya
AuthorT S Nandi, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year2000
Total Pages548
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Literature, & Kavya
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy