SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ ६० १० १५ [काव्यानुशासनम् स्त्रीपुंसौ परस्परं तयोश्चोपयोगिनो माल्यर्तुशैलपुरहर्म्यनदीचन्द्रपवनोद्यानदीर्घिकाजलक्रीडादयश्च श्रूय अनुभूयमाना वा आलम्बनोद्दीपनरूपविभावा यस्याः सा, जुगुप्सालस्यौग्य वर्जितव्यभिचारिका समग्रविषयग्रामसमग्रयोः स्थिरानुरागयोः संप्रयोगसुखैषिणोः कामिनोर्यूनोः परस्परविभाविका द्वयोरप्येकरूपा प्रारम्भादिफलपर्यन्तव्यापिनी सुखोत्तरा आस्थाबन्धात्मिका रतिः स्थायिभावश्चर्वणागोचरं गता शृङ्गारो रसः । देवमुनिगुरुनृपपुत्रादिविषया तु भाव एव न पुना रसः । देवविषया यथा २५ मुनिविषया यथा यैः शान्तरागरुचिभिः परमाणुभिस्त्वं निर्मापितस्त्रिभुवनैकललामभूत । तावन्त एव खलु तेऽप्यणवः पृथिव्यां यत्ते समानमपरं न हि रूपमस्ति ॥ ९६ ॥ Jain Education International [भक्तामर १२] अनुभावास्तु संभोगविप्रलम्भयोः प्रत्येकं वक्ष्यन्त इतीह नोक्ताः । संभोगविप्रलम्भात्मेति संभोगविप्रलम्भावात्मा न त्वात्मानौ यस्य स तथा तेन न शृङ्गारस्येमौ भेदौ गोत्वस्येव शाबलेयबाहुलेयौ, अपि तु तद्दशाद्वयेऽप्यनुयायिनी या रतिरास्थाबन्धात्मिका तस्याः स्वाद्यमानं रूपं शृङ्गारः । संभोगविप्रलम्भयोस्तु शृङ्गारशब्दो ग्रामैकदेशे ग्रामशब्दवदुपचारात् । तथा २० विप्रलम्भेऽनवच्छिन्न एव संभोगमनोरथः, निराशत्वे तु करुण एव स्यात् । संभोगेऽपि न चेद्विरहाशङ्का तदा स्वाधीनेऽनुकूले चानादर एव स्यात्, वामत्वान्मनोभुवः । यदाह मुनि: गृहाणि नाम तान्येव तपोराशिर्भवादृशः । संभावयति यान्येव पावनैः पादपांशुभिः ॥९७॥ [ काव्यादर्श १.८६ ] (९) यद्वामाभिनिवेशित्वं यतश्च विनिवार्यते । दुर्लभत्वं च यन्नार्याः कामिनः सा परा रतिः ॥ [ नाट्यशास्त्र २२.२०७] For Private & Personal Use Only www.jainelibrary.org
SR No.001585
Book TitleKavyanushasanam
Original Sutra AuthorHemchandracharya
AuthorT S Nandi, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year2000
Total Pages548
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Literature, & Kavya
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy