________________
१०
[काव्यानुशासनम् अत्र विभावानाम् । [अभिनवगुप्तस्य-लोचने पृ. २७७; अभिनवभारत्याम् पृ. २८६]
यद्विश्रम्य विलोकितेषु बहुशो निःस्थेमनी लोचने यद्गात्राणि दरिद्रति प्रतिदिनं दूनाब्जिनीनालवत् । दूर्वाकाण्डविडम्बकश्च निबिडो यत्पाण्डिमा गण्डयोः
कृष्णे यूनि सयौवनासु वनितास्वेषैव वेषस्थितिः ॥१४॥ अत्रानुभावानाम् । ___ [भट्टेन्दुराजस्य-लोचने- पृ. ८१; अभिनवभारत्याम् पृ. २८६]
दूरादुत्सुकमागते विचलितं संभाषिणि स्फारितं संश्लिष्यत्यरुणं गृहीतवसने किं चाञ्चितभूलतम् । मानिन्याश्चरणानतिव्यतिकरे बाष्पाम्बुपूर्णेक्षणं चक्षुर्जातमहो प्रपञ्चचतुरं जातागसि प्रेयसि ॥९५॥
[अमरु. ४९] अत्रौत्सुक्यव्रीडाहर्षकोपासूयाप्रसादानां व्यभिचारिणाम् । तत्राप्येतेषामौचित्यादन्यतमद्वयाक्षेपकत्वमिति न १५ व्यभिचारः।
रसभेदानाह२७) शृङ्गारहास्यकरुणरौद्रवीरभयानकबीभत्साद्भुतशान्ता नव स्साः ॥२॥
तत्र करमस्यसकलजातिसुलभतयात्यन्तपरिचितत्वेन सर्वान्प्रति हृद्यतेतिपूर्वंशृङ्गारः। तदनुगामीच हास्यः । निरपेक्षभावत्वात्तद्विपरीतस्ततः करुणः। ततस्तन्निमित्तमर्थप्रधानो रौद्रः । ततः कामार्थयोधर्म-मूलत्वाद्धर्मप्रधानो २० वीरः । तस्य भीताभयप्रदानसारत्वादनन्तरं भयानकः । तद्विभावसाधारण्यसंभावनात्ततो बीभत्सः ।
इतीयद्वीरेणाक्षिप्तम् । वीरस्य पर्यन्तेऽद्भुतः फलमित्यनन्तरं तदुपादानम् । ततस्त्रिवर्गात्मकप्रवृत्तिधर्मविपरीतनिवृत्तिधर्मात्मको मोक्षफलः शान्तः। एते नवैवपरस्परासंकीर्णारसाः। तेनार्द्रतास्थायिकः स्नेहोरस इत्यसत् । तस्य रत्यादावन्तर्भावात्। तथा हि-यूनो मित्रे स्नेहो रतौ, लक्ष्मणादेर्धातरि स्नेहो धर्मवीरे, बालस्य मातापित्रादौ
स्नेहो भये विश्रान्तः। एवं वृद्धस्य पुत्रादाविति द्रष्टव्यम्। तथा गर्धस्थायिकस्य लौल्यरसस्य हासे वारतौ वाऽन्यत्र २५ वान्तर्भावो वाच्यः । एवं भक्तावपि वाच्यम्।
तत्र शृङ्गारमाह२८) स्त्रीपुंसमाल्यादिविभावा जुगुप्सालस्यौग्यवर्जव्यभिचारिका रतिः संभोगविप्रल
म्भात्मा शृङ्गारः॥३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org