________________
५
रसलक्षणमाह
२६) विभावानुभावव्यभिचारिभिरभिव्यक्तः स्थायी भावो रसः ||१|| वागाद्यभिनयसहिताः स्थायिव्यभिचारिलक्षणाश्चित्तवृत्तयो विभाव्यन्ते विशिष्टतया ज्ञायन्ते यैस्तैर्विभावैः काव्यनाट्यशास्त्रप्रसिद्धैरालम्बनोद्दीपनस्वभावैर्ललनोद्यानादिभिः, स्थायिव्यभिचारिलक्षणं चित्तवृत्तिविशेषं सामाजिकजनोऽनुभवन्ननुभाव्यते साक्षात्कार्यते यैस्तैरनुभावैः कटाक्षभुजाक्षेपादिभिः, विविधमाभिमुख्येन चरणशीलैर्व्यभिचारिभिर्धृतिस्मृतिप्रभृतिभिः, स्थायिभावानुमापकत्वेन लोके कारणकार्यसहचारिशब्दव्यपदेश्यैः, ममैवैते परस्यैवैते न ममैते न परस्यैते इति संबन्धिविशेषस्वीकारपरिहारनियमानवसायात्साधारण्येन प्रतीतैरभिव्यक्तः सामाजिकानां वासनारूपेण स्थितः स्थायी रत्यादिको भावो नियतप्रमातृगत्वेन स्थितोऽपि साधारणोपायबलात्सहृदयहृदयसंवादभाजा साधारण्येन गोचरीक्रियमाणश्चर्व्यमाणतैकप्राणो विभावादि१० भावनावधिरलौकिकचमत्कारकारितया परब्रह्मास्वादसोदरो निमीलितनयनैः कविसहृदयै रस्यमानः स्वसंवेदनसिद्धो रसः ।
स च न विभावादेः कार्यस्तद्विनाशेऽपि रससंभवप्रसङ्गात् । नापि ज्ञाप्यः सिद्धस्य तस्याभावात् । कारकज्ञापकाभ्यामन्यत् क्व दृष्टमिति चेन्न क्वचिद्दृष्टमित्यलौकिकत्वसिद्धेर्भूषणमेतन्न दूषणम् । विभावादीनां च समस्तानामभिव्यञ्जकत्वं न व्यस्तानाम्, व्यभिचारात् । व्याघ्रादयो हि विभावा भयानकस्येव वीरा१५ भुतरौद्राणाम्, अश्रुपातादयोऽनुभावाः करुणस्येव शृङ्गारभयानकयोश्चिन्तादयो व्यभिचारिणः
शृङ्गारवीरभयानकानाम् ।
२०
यत्राप्येकैकस्योपदानं यथा
॥ द्वितीयोऽध्यायः ॥
Jain Education International
कन्दलितस्य विभ्रममधोर्धुर्यं वपुस्ते दृशो - भङ्ग भङ्गुरकामकार्मुकमिदं भ्रूनर्मकर्मक्रमः । आपातेऽपि विकारकारणमहो वक्त्राम्बुजन्मासवः
सत्यं सुन्दर वेधसस्त्रिजगतीसारं त्वमेकाकृतिः ॥९३॥
For Private & Personal Use Only
]
www.jainelibrary.org