________________
[काव्यानुशासनम् यथा च प्रत्ययांशस्य द्योतकत्वं तथा प्रकृत्यंशस्यापि यथा
तद्नेहं नतभित्ति मन्दिरमिदं लब्ध्वावकाशं दिवः सा धेनुर्जरती नदन्ति करिणामेता घनाभा घटाः । स क्षुद्रो मुशलध्वनिः कलमिदं संगीतकं योषितामाश्चर्यं दिवसैर्द्विजोऽयमियती भूमिं परां प्रापितः ।।११।।
[काव्यप्रकाशे १० उल्लासे पठ्यते] अत्र दिवसार्थेनात्यन्तासंभाव्यमानतास्यार्थस्य ध्वन्यते । तदिति प्रकृत्यंशश्चाऽत्र नतभित्तीत्येतत्प्रकृत्यंशसहायः समस्तामङ्गलभूतां मूषिकाद्याकीर्णतां ध्वनति। एवं सा धेनुरित्यादावपि योज्यम्। तथा
रइकेलिहियनियंसणकरकिसलयरुद्धनयणजुअलस्स। रुद्दस्स तइयनयणं पव्वइपरिचुंबियं जयइ ।।९२॥
[सप्तशतक ४५५; गाथासप्तशती ५.५५] अब जयतीति न तु शोभत इत्यादि । समानेऽपि हि स्थगनव्यापारे लोकोत्तरेणैव रूपेणास्य पिधानमिति तदेवोत्कृष्टमिति व्यज्यते।
भावादीनां पदप्रकाशकत्वेऽधिकं न वैचित्र्यमिति न तदुदाहियते । वाक्यस्य रसादिव्यञ्जकत्वं रसादिलक्षण एवोदाहरिष्यते । प्रबन्धे च नाटकादावर्थशक्तिमूला रसव्यक्तिः प्रतीतैव । वर्णरचनायास्तु साक्षान्माधुर्यादिगुणव्यञ्जकत्वमेव । तद्द्वारेण तु रसे उपयोग इति गुणप्रकरण एव वक्ष्येते इतीह नोक्ते।
इति । आचार्यश्रीहेमचन्द्रविरचितायाम्-अलङ्कारचूडामणिसंज्ञस्वोपज्ञकाव्यानुशासनवृत्तौ प्रथमोऽध्यायः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org