SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ [काव्यानुशासनम् अन्नत्थ वच्च बालय ण्हायंतिं कीस मं पुलोएसि । एयं भो जायाभीरुयाण तहं चिय न होइ ॥८५॥ अत्र जायातो ये भीरवस्तेषामेतत्स्नानस्थानमिति दूरापेतः संबन्ध इत्यनेन संबन्धेनैवेातिशयः ५ प्रच्छन्नकामिन्याभिव्यक्तः । जायाभीरुकाणामित्यत्र तद्धितस्यापि व्यञ्जकत्वम् । ये ह्यरसज्ञा धर्मपत्नीषु प्रेमपरतन्त्रास्तेभ्यः कोऽन्यो जगति कुत्सितः स्यादिति कप्रत्ययोऽवज्ञातिशयद्योतकः । अयमेकपदे तया वियोगः प्रियया चोपनतः सुदुःसहो मे। नववारिधरोदयादहोभिर्भवितव्यं च निरातपत्ररम्यैः ॥८६॥ [विक्रर्मोर्वशीय ४.३] अत्र चकारौ निपातावेवमाहतुः, गण्डस्योपरि स्फोटवद्वियोगश्च वर्षासमयश्च समुपनतमेतद् द्वयमलं प्राणहरणायेति । अत एव रम्यपदेन सुतरामुद्दीपनविभावत्वमुक्तम् ।। प्रस्निग्धाः क्वचिदिगुदीफलभिदः सूच्यन्त एवोपलाः ॥८७।। [शाकुन्तल १.१३] अत्र प्र इत्युपसर्ग इङ्गुदीफलानां सरसत्वमाचक्षाण आश्रमस्य सौन्दर्यातिशयं ध्वनति । १५ अनेकस्य निपातस्योपसर्गस्य चैकत्र पदे यः प्रयोग: सोपि रसव्यक्त्यर्थः । यथा___ अहो बतासि स्पृहणीयवीर्यः ॥८८।। [कुमार.-३.२०] अत्राहो बतेत्यनेन श्लाघातिशयो ध्वन्यते । मनुष्यवृत्त्या समुपाचरन्तं स्वबुद्धिसामान्यकृतानुमानाः । योगीश्वरैरप्यसुबोधमीशं त्वां बोद्धुमिच्छन्त्यबुधाः स्वतः ॥८९।। २० अत्र सम्यग्भूतमुपांशु कृत्वा आसमंताच्चरन्तमित्यनेन लोकानुजिघृक्षातिशयस्तत्तदाचरतः परमेश्वरस्य ध्वन्यते। 'रमणीयः क्षत्रियकुमार आसीत्' ॥९०॥ इति [महावीरचरित, २. पृ. ६७] ____ अत्र शङ्करधनुर्भङ्गश्रवणात्प्रकुपितस्य भार्गवस्योक्त्या ‘आसी'दित्यतीतकालनिर्देशाद् दाशरथेः कथाशेषत्वं व्यज्यते। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001585
Book TitleKavyanushasanam
Original Sutra AuthorHemchandracharya
AuthorT S Nandi, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year2000
Total Pages548
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Literature, & Kavya
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy