SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ ५० १० [काव्यानुशासनम् रसभावतदाभासभावशान्तिभावोदयभावस्थितिभावसन्धिभावशबलत्वान्यर्थशक्तिमूलानि व्यङ्ग्यानि । चकारः पदवाक्यप्रबन्धानुकर्षणार्थः । पृथग्योगे रसादयो व्यङ्ग्या एव भवन्ति न तु कदाचिद्वाच्यतामपि सहन्त इति रसादीनां प्राधान्यख्यापनार्थः । वस्त्वलङ्कारौ हि वाच्यावपि भवत इति । तत्रार्थशक्तिमूलो व्यङ्ग्यो रसः पदे यथा उत्कम्पिनी भयपरिस्खलितांशुकान्ता - तिलोचने प्रतिदिशं विधुरे क्षिपन्ती। तीक्ष्णेन दारुणतया सहसैव दग्धा धूमान्धितेन दहनेन न वीक्षितासि ॥८॥ [तापसवत्सराज २.१६] अत्र ते-इति पदेन स्मारितानामनुभवैकगोचराणां सातिशयविभ्रमाणां शोकव्यञ्जकत्वम् । त्याद्यन्ते यथा मा पंथं रुंध महं अवेहि बालय अहो सि अहिरीओ। अम्हे अणिरिक्काओ सुण्णहरं रक्खियव्वं ण्णो ॥८२।। ... ............ ........ ..... सप्तशतक ९६१] अत्रापेहीति त्याद्यन्तम् । त्वं तावदप्रौढो लोकमध्ये यदेवं प्रकाशयसि, अस्ति तु संकेतस्थानं शून्यगृहं तत्रैवागन्तव्यमिति ध्वनति। पदैकदेशोऽपि पदं यथा तालैः शिजवलयसुभगैर्नर्तितः कान्तया मे। यामध्यास्ते दिवसविगमे नीलकण्ठः सुहृदः ॥८३॥ मेघदूत २.१६] अत्र तालैरिति बहुवचनमनेकभङ्गिवैदग्ध्यं ख्यापयद्विप्रलम्भमुद्दीपयति । लिखन्नास्ते भूमि बहिरवनतः प्राणदयितो निराहाराः सख्यः सततरुदितोच्छूननयनाः । परित्यक्तं सर्वं हसितपठितं पञ्जरशुकैस्तवावस्था चेयं विसृज कठिने मानमधुना ॥८४॥ [अमरुशतक ७] अत्र न लिखतीत्यपि तु प्रसादपर्यन्तमास्त इति, तथा आस्त इति न त्वासित इति, भूमिमिति न तु भूमाविति, न हि बुद्धिपूर्वकं रूपकं किंचिल्लिखतीति स्यादितित्यादिविभक्तीनां व्यञ्जकत्वम् । २० २५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001585
Book TitleKavyanushasanam
Original Sutra AuthorHemchandracharya
AuthorT S Nandi, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year2000
Total Pages548
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Literature, & Kavya
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy