________________
४८
[काव्यानुशासनम् वाक्ये यथा
गाढालिंगणरहसुज्जअम्मि दइए लहुं समोसरइ ।
माणंसिणीणं माणो पीलणभी उव्व हियआओ ॥७५॥ अत्रोत्प्रेक्षया प्रत्यालिङ्गनादि । तत्र जृम्भत इति वस्तु व्यज्यते । अलङ्कारेणालङ्कारः पदे यथा
तुह वल्लहस्स गोसम्मि आसि अहरो मिलाण कमलदलं । इय नववहुआ सोऊण कुणइ वयणं महीस(सं)मुहं ॥७६॥
अत्र मिलाणकमलदलमिति रूपकेण म्लानत्वान्यथानुपपत्तेस्त्वयास्य मुहुर्मुहुः परिचुम्बनं कृतमिति अनुमानं व्यज्यते। वाक्ये यथा.56 स वक्तुमखिलान् शक्तो हयग्रीवाश्रितान् गुणान् ।
योऽम्बुकुम्भैः परिच्छेदं शक्तः कर्तुं महोदधेः ॥७७॥
२०
अत्र निदर्शनेन हयग्रीवगुणानामवर्णनीयताप्रतिपादनरूपोऽसाधारणतद्विशेषप्रकाशनपर आक्षेपो व्यज्यते । प्रबन्धेऽर्थशक्तिमूलो व्यङ्ग्यो यथा गृध्रगोमायुसंवादे । तथा च
अलं स्थित्वा श्मशानेऽस्मिन् गृध्रगोमायुसङ्कुले। न चेह जीवितः कश्चित्कालधर्ममुपागतः ॥७८॥
[महाभारत शा. प., अ. १५२, श्लो. ११ (अ) १२ (अ)] इति दिवा प्रभवतो गृध्रस्य पुरुषविसर्जनपरमिदं वचनम् ।
आदित्योऽयं स्थितो मूढाः स्नेहं कुरुत साम्प्रतम् । बहुविघ्नो मुहूर्तोऽयं जीवेदपि कदाचन ॥७९।। अमुं कनकवर्णाभं बालमप्राप्तयौवनम् । गृध्रवाक्यात्कथं बालास्त्यक्ष्यध्वमविशङ्किताः ॥८०॥
_ [महाभारत शा. प. अ. १५२. श्लो. १९,६५] इति निशि विजृम्भमाणस्य गोमायोजनव्यावर्तननिष्ठंचेतिप्रबन्धप्रतिपाद्येनार्थेन गृध्रगोमाय्वोर्भक्षणाभिप्रायोव्यज्यते। एवं मधुमथनविजये पाञ्चजन्योक्तिषु विषमबाणलीलायां कामदेवस्य सहचरसमागमेऽर्थव्यञ्जकत्व-मुदाहार्यम्। एवं च वस्तुनोऽलंकारव्यञ्जकत्वेऽलंकारस्य च वस्त्वलंकारव्यञ्जकत्वे भेदत्रयमुत्प्रेक्ष्यम्।
रसादिश्च ॥२५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org