SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ [काव्यानुशासनम् अत्र कुसुमबाणेनेति पदं कामदेवस्य मृदूपायसौन्दर्य प्रकाशयति । वाक्ये यथा तापी नेयं नियतमथवा तानि नैतानि नूनं तीराण्यस्याः सविधविचलद्वीचिवाचालितानि । अन्यो वाऽहं किमथ न हि तद्वारि वेल्लबलाकं यत्तत्पल्लीपतिदुहितरि स्नातुमभ्यागतायाम् ॥७१।। अत्र वाक्यार्थेन वस्तुमात्ररूपेणाभिलषणीयजनकृतमेव भावानां हृद्यत्वं न स्वत इत्येतद्वस्तु व्यज्यते । वस्तुनोऽलङ्कारव्यञ्जकत्वं पदे यथा धीराण रमइ घुसिणारुणम्मि न तहा पिआथणुच्छंगे। दिट्ठी रिउगयकुंभत्थलम्मि जह बहलसिंदूरे ॥७२।। अत्र धीराणामिति पदार्थो वस्तुमात्ररूपः कुचयोः कुंभस्थलस्य चोपमालङ्कारं ध्वनति । वाक्ये यथा पुत्रक्षयेन्धनघनप्रविजृम्भमाणस्नेहोत्थशोकविषमज्वलनाभितप्तः । प्रालेयशीतलममंस्त स बाह्यवह्निमहाय देहमथ संविदधे सरित्सात् ॥७३॥ २० अत्र वसिष्ठः पुत्रक्षयोपतप्तोऽग्निं प्रविष्टोऽपि न तेन दग्ध इत्ययं वाक्यार्थो वस्तुस्वभावः शोकस्य बाह्यवह्रराधिक्यमिति व्यतिरेकालङ्कारं ध्वनति । अलङ्कारस्य वस्तुव्यञ्जकत्वं पदे यथा चूयंकुरावयंसं छणपसरमहग्धमणहरसुरामोअं। अपणामियं पि गहियं कुसुमसरेण महुमासलच्छीए मुहं ॥७४॥ __ [हरविजये) अत्रापणामियं असमर्पितमपीति विरोधालङ्कारेण वाच्येन मधुमासप्रौढिमनि भाविनि किं भविष्यतीत्येवंभूतं वस्तु ध्वन्यते । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001585
Book TitleKavyanushasanam
Original Sutra AuthorHemchandracharya
AuthorT S Nandi, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year2000
Total Pages548
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Literature, & Kavya
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy