________________
४४
[काव्यानुशासनम् बाधितस्वार्थमेतद्वाक्यं संयमिनो लोकोत्तरतालक्षणेन निमित्तेन तत्त्वदृष्टाववधानं मिथ्यादृष्टौ तु पराङ्मुखत्वं ध्वनतीति। लक्षकशब्दशक्तिव्यङ्ग्यं वस्तु पदे यथा
स्निग्धश्यामलकान्तिलिप्तवियतो वेल्लद्वलाका घना वाताः शीकरिणः पयोदसुहृदामानन्दकेकाः कलाः । कामं सन्तु दृढं कठोरहृदयो रामोऽस्मि सर्व सहे वैदेही तु कथं भविष्यति ह हा हा देवि धीरा भव ॥६॥
सवा
.....
अत्र प्रकरणात्तृतीयत्रिकनिर्देशाच्च रामे प्रतिपन्ने रामपदमनुपयुज्यमानं कठोरहृदय इत्यनेन १० दर्शितावकाशं पितृमरणसीतावियोगाद्यनेकदुःखभाजनत्वं लक्षयदसाधारणानि निर्वेदग्लानिमोहादीनि व्यनक्ति । वाक्ये यथा
सुवर्णपुष्पां पृथिवीं चिन्वन्ति पुरुषास्त्रयः ।
शूरश्च कृतविद्यश्च यश्च जानाति सेवितुं ॥६९।। १५ इदं हि वाक्यमसंभवत्स्वार्थं सत्सादृश्यात्सुलभसमृद्धिसंभारभाजनतां लक्षयच्छूरकृतविद्यसेवकानां प्राशस्त्यं ध्वनति । अर्थशक्तिमूलं व्यङ्ग्यमाह
__ वस्त्वलङ्कारयोस्तद्वयञ्जकत्वेऽर्थशक्तिमूलः प्रबन्धेऽपि ॥२४॥ वस्तुनोऽलङ्कारस्य च प्रत्येकं वस्त्वलकारव्यञ्जकत्वेऽर्थशक्तिमूलः । स च पदवाक्ययोः प्रबन्धे च । इह २० चार्थः स्वतःसंभवी, कविप्रौढोक्तिमात्रनष्पन्नशरीरः, कविनिबद्धवक्तृप्रौढोक्तिमात्रनिष्पन्नशरीरो वेति भेदकथनं
न न्याय्यम् । प्रौढोक्तिनिर्मितत्वमात्रेणैव साध्यसिद्धेः । प्रौढोक्तिमन्तरेण स्वतःसंभविनोऽप्यकिञ्चित्करत्वात् । कविप्रौढोक्तिरेव च कविनिबद्धवक्तृप्रौढोक्तिरिति किं प्रपञ्चेन । तत्र वस्तुनो वस्तुव्यञ्जकत्वं पदे यथा
तं ताण सिरिसहोअररयणाहरणम्मि हिअयमिक्करसं । बिंबाहरे पिआणं निवेसियं कुसुमबाणेण ॥७०॥
विषमबाणलीला]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org