SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ ४२ [काव्यानुशासनम् अत्र वाक्यस्यासंबद्धार्थत्वं मा प्रसाङ्गीदित्यप्राकरणिकप्राकरणिकयोरुपमानोपमेयभावः कल्पनीय इत्यत्रोपमालङ्कारो व्यङ्ग्यः । यथा वा अतन्द्रचन्द्राभरणा समुद्दीपितमन्मथा । - तारकातरला श्यामा सानन्दं न करोति कम् ॥६३।। अत्र शब्दशक्त्या रात्रियोषितोरुपमा व्यङ्ग्या । यद्यपि समुद्दीपितेति सानन्दमिति चार्थोऽपि व्यञ्जकस्तथापि न शब्दशक्तिं विनार्थशक्तिरुन्मीलतीति शब्दशक्तिरेव व्यञ्जिका । यथा वा - । “मातङ्गगामिन्यः शीलवत्यश्च गौर्यो विभवरताश्च श्यामाः पद्मरागिण्यः धवलद्विजशुचिवदना मदिरामोदश्वसनाश्च प्रमदाः" ॥६४॥ [हर्षचरित ३, पृ. ९८] अत्र विरोधालङ्कारो व्यङ्ग्यः । यथा वा खं येऽभ्युज्ज्वलयन्ति लूनतमसो ये वा नखोद्भासिनः ये पुष्णन्ति सरोरुहश्रियमधिक्षिप्त्वाब्जभासश्च ये । ये मूर्धस्ववभासिनः क्षितिभृतां ये चामराणां शिरांस्याक्रामन्त्युभयेऽपि ते दिनपतेः पादाः श्रिये सन्तु वः ॥६५॥ __[ध्वन्यालोकवृत्तिकारस्य आनन्दवर्धनस्य ?] अत्र व्यतिरेकः । एवमलङ्कारान्तरेऽप्युदाहार्यम् । गौणशब्दशक्तिव्यङ्ग्यं वस्तु पदे यथा रविसंक्रान्तसौभाग्यस्तुषाराविलमण्डलः । निःश्वासान्ध इवादर्शश्चन्द्रमा न प्रकाशते ॥६६॥ __ [रामायण १६. २.१३] अत्रोपसंहतदृष्टिवृत्तिरन्धशब्दो बाधितमुख्यार्थः पदार्थप्रकाशनाशक्तत्वं नष्टदृष्टिगतं निमित्तीकृत्यादर्श वर्तमानोऽसाधारणविच्छायित्वानुपयोगित्वादिधर्मजातमसंख्यं प्रयोजनं व्यनक्ति । वाक्ये यथा ___ या निशा सर्वभूतानां तस्यां जागर्ति संयमी। ... यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः ॥६७।। __ [महाभारत, भीष्मपर्व, गीता २.६९] अत्र निशायां जागरितव्यमन्यत्र रात्रिवदासितव्यमिति न कश्चिदुपदेश्यं प्रत्युपदेशः सिद्धयतीति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001585
Book TitleKavyanushasanam
Original Sutra AuthorHemchandracharya
AuthorT S Nandi, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year2000
Total Pages548
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Literature, & Kavya
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy