________________
४०
५
१०
१५
२०
२५
[काव्यानुशासनम्
तस्य बाधा, न च किञ्चिन्निमित्तमस्ति, नापि तत्र शब्दः स्खलद्गतिः, न च किञ्चित्प्रयोजनमस्ति । अथ प्रयोजनेऽपि लक्ष्ये प्रयोजनान्तरमाकाङक्ष्यते, तर्हि तत्रापि प्रयोजनान्तराकाङ्क्षायामनवस्था स्यात् । तथा च लाभमिच्छतो मूलक्षतिः । न च प्रयोजनसहितमेव लक्ष्यं लक्षणाया विषय इति वक्तुं शक्यम् । विषयप्रयोजनयोरत्यन्तभेदात् । प्रत्यक्षारेदपि प्रमाणस्य विषयो घटादिः । प्रयोजनं त्वर्थाधिगतिः प्राकटचं संवित्तिर्वा । तदेवं प्रयोजनविशिष्टस्य लक्ष्यस्य गौणीलक्षणयोरविषयत्वात्प्रयोजने व्यञ्जनमेव व्यापारः । तत्र मुख्यशब्दशक्तिव्यङ्गयं वस्तु पदे यथामुक्तिभुक्तिकृदेकान्तसमादेशनतत्परः ।
कस्य नानन्दनिस्यन्दं विदधाति सदागमः ॥५८॥
]
T
काचित्संकेतदायिनमेवं मुख्यया वृत्त्या शंसतीति सदागमपदेन प्रकाश्यते । अत्रार्थयोर्वैसादृश्यान्नोपमा । वाक्ये यथा
पंथि न एत्थ सत्थरमत्थि मणं पत्थरत्थले गामे । उन्नयपओहरं पेक्खिऊण जइ वससि ता वससु ॥ ५९ ॥
[ सप्तशतक ८७९]
अत्र प्रहरचतुष्टयमप्युपभोगेन नेह निद्रां कर्तुं लभ्यते । सर्वे ह्यत्राविदग्धाः । तदुन्नतपयोधरां मामुपभोक्तुं यदि वससि तदास्स्वेति व्यज्यते । वाच्यबोधेन च व्यङ्गयस्य स्थितत्वात्तयोर्नोपमानोपमेयभाव इति नालङ्कारो व्यङ्गयः । यथा च
शनिरशनिश्च तमुच्चैर्निहन्ति कुप्यसि नरेन्द्र यस्मै त्वम् । यत्र प्रसीदसि पुनः स भात्युदारोऽनुदारश्च ||६० ||
[ का. प्र. ४ / ५९ ]
अत्र विरुद्धावपि त्वदनुवर्तनार्थमेककार्यं कुरुत इति व्यत्ययेन ध्वन्यते । मुख्यशब्दशक्तिव्यङ्गयोलङ्कारः पदे यथा
Jain Education International
रुधिरविसरप्रसाधितकरवालकरालरुचिरभुजपरिघः ।
झटिति भ्रकुटिविटङ्कितललाटपट्टो विभासि नृप भीमः ॥ ६१ ॥
अत्र भीषणीयस्य भीमसेन उपमानम् ।
वाक्ये यथा
उन्नतः प्रोल्लसद्धारः कालागुरुमलीमसः । पयोधरभरस्तस्याः कं न चक्रेऽभिलाषिणम् ॥६२॥
For Private & Personal Use Only
www.jainelibrary.org