SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ ३८ [काव्यानुशासनम् अभिनयो यथा एद्दहमित्तत्थणिया एद्दहमित्तेहिं अच्छिवत्तेहिं । एयावत्थं पत्ता एत्तियमित्तेहिं दियहेहिं ॥५२।। अपदेशो यथा इतः स दैत्यः प्राप्तश्रीर्नेत एवार्हति क्षयम् । विषवृक्षोऽपि संवर्ध्य स्वयं च्छेत्तुमसांप्रतम् ॥५३॥ [कुमार० २.५५] निर्देशो यथा "भर्तृदारिके दिष्टया वर्धामहे यदव कोऽपि कस्यापि तिष्ठतीति मामङ्गुलीविलासेनाख्यातवत्यः" ॥५४॥ [मालतीमाधव अङ्क १] संज्ञा यथा अप्यवस्तुनि कथाप्रवृत्तये प्रश्नतत्परमनङ्गशासनम् । वीक्षितेन परिगृह्य पार्वती मूर्धकम्पमयमुत्तरं ददौ ॥५५॥ [कुमार० ८.६.] इङ्गितं यथा कदा नौ सङ्गमो भावीत्याकीर्णे वक्तुमक्षमम् । अवेत्य कान्तमबला लीलापमं न्यमीलयत् ॥५६॥ [काव्यादर्श २.२६१] आकारो यथा निवेदितं निःश्वसितेन सोष्मणा मनस्तु मे संशयमेव गाहते । न विद्यते प्रार्थयितव्य एव ते भविष्यति प्रार्थितदुर्लभः कथम् ॥५७॥ [कुमार० ५.४६] तदेवं संसर्गादिभिर्नियमितायामभिधायां याऽर्थान्तरे प्रतीतिः सा व्यञ्जनव्यापारादेव । अमुख्येऽपि शब्दे मुख्यार्थबाधादिनियमिते प्रयोजनप्रतिपत्तिर्व्यञ्जनव्यापारादेव । तथा हि तत्र संकेता-भावान्नाभिधा । नापि गौणी लक्षणा वा मुख्यार्थबाधादिलक्षणाभावात् । न हि लक्ष्यं मुख्यं, नापि २५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001585
Book TitleKavyanushasanam
Original Sutra AuthorHemchandracharya
AuthorT S Nandi, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year2000
Total Pages548
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Literature, & Kavya
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy