SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ ३६ [काव्यानुशासनम् 'रामार्जुनव्यतिकरः सांप्रतं वर्तते तयोः' ॥४१॥ इति विरोधाद्भार्गवकार्तवीर्ययोः । ___ सैन्धवमानय, मृगयां चरिष्यामि ॥४२॥ इत्यर्थात्प्रयोजनादश्वे। 'अस्मद्भाग्यविपर्ययाद्यदि पुनर्देवो न जानाति तम् ॥४३॥ इति प्रकरणाद्युष्मदर्थे । प्रकरणमशब्दं अर्थस्तु शब्दवानित्यनयोर्भेदः । 'कोदण्डं यस्य गाण्डीवं स्पर्धते कस्तमर्जुनम्' ॥४४|| इति लिङ्गाच्चिह्नात्पार्थे । 'किं साक्षादुपदेशयष्टिरथवा देवस्य शृङ्गारिणः' ॥४५।। इति शब्दान्तरसंनिधानात्कामे । 'क्वणति मधुना मत्तश्चेतोहर: प्रियकोकिलः' ॥४६॥ इति सामर्थ्याद्वसन्ते। 'तन्व्या यत्सुरतान्तकान्तनयनं वक्त्रं रतिव्यत्यये । तत्त्वां पातु चिराय' ॥४७।। [अमरुशतक ३] इत्यौचित्यात्प्रसादसाम्मुख्ये पालने । ___'अहो महेश्वरस्यास्य कापि कान्तिः ॥४८॥ इति राजधानीरूपाद्देशाद्राजनि । 'चित्रभानुर्विभात्यह्नि' ॥४९॥ इति कालविशेषाद्रवौ। _ 'मित्रं हन्तितरां तमःपरिकरं धन्ये दृशौ मादृशाम्' ॥५०॥ इति व्यक्तिविशेषात्सुहृदि च प्रतीतिः । स्वरात्त्वर्थविशेषे प्रतीतिः काव्यमार्गेऽनुपयोगिनीति नोदाह्रियते । 'मध्नामि कौरवशतं समरे न कोपात्' ॥५१॥ [वेणी. १.१.५ आ इति काकुरूपात्तु स्वराद्भवत्यर्थविशेषे प्रतीतिः । आदिग्रहणादभिनयापदेशनिर्देशसंज्ञेगिताकारा गृह्यन्ते। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001585
Book TitleKavyanushasanam
Original Sutra AuthorHemchandracharya
AuthorT S Nandi, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year2000
Total Pages548
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Literature, & Kavya
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy