________________
३४
[काव्यानुशासनम् अत्र मत्प्रियं रमयन्त्या त्वया शत्रुत्वमाचरितमिति लक्ष्यम् । तेन च कामुकविषयं सापराधत्वप्रकाशनं व्यङ्ग्यम् । व्यङ्गयस्य यथा
वाणियय हत्थिदंता कुत्तो अम्हाण वग्धकित्तीओ। जावि लुलियालयमुही घरम्मि परिसुक्कए सुण्हा ॥३७॥
[सप्तशतक ९५१] अतः विलुलितालकमुखी तेनानवरतक्रीडासक्तिस्तथा च सततसंभोगक्षामता ध्वन्यते। व्यङ्गयस्य भेदानाह
__व्यङ्गयः शब्दार्थशक्तिमूलः ॥२२॥ १० शब्दशक्तिमूलोऽर्थशक्तिमूलश्चेति व्यङ्ग्यो द्विधा । उभयशक्तिमूलस्तु शब्दशक्तिमूलान्नातिरिच्यते शब्दस्यैव प्राधान्येन व्यञ्जकत्वात् ।
तत्र शब्दशक्तिमूलमाहनानार्थस्य मुख्यस्य शब्दस्य संसर्गादिभिरमुख्यस्य च मुख्यार्थबाधादिभिर्नियमिते व्यापारे वस्त्वलङ्कारयोर्वस्तुनश्च व्यञ्जकत्वे शब्दशक्तिमूल: पदवाक्ययोः ॥२३॥
अनेकार्थस्य मुख्यस्य शब्दस्याभिधालक्षणे व्यापारे संसर्गादिभिर्नियन्त्रितेऽमुख्यस्य च गौणलाक्षणिकरूपस्य शब्दस्य मुख्यार्थबाधनिमित्तप्रयोजनौणीलक्षणारूपे व्यापारे नियन्त्रिते मुख्यस्य शब्दस्य वस्त्वलङ्कारव्यञ्जकत्वेऽमुख्यस्य च वस्तुव्यञ्जकत्वे सति शब्दशक्तिमूलो व्यङ्ग्यः । स च प्रत्येक द्विधा । पदे वाक्ये च।
संसर्गादयश्चेमे भर्तृहरिणा प्रोक्ता:२०
(८) संसर्गो विप्रयोगश्च साहचर्यं विरोधिता। अर्थः प्रकरणं लिङ्ग शब्दस्यान्यस्य सनिधिः ॥
_ [वाक्यपदीय का. २, श्लो. ३१७] सामर्थ्यामौचिती देशः कालो व्यक्तिः स्वरादयः ।
शब्दार्थस्यानवच्छेदे विशेषस्मृतिहेतवः ।। २५ यथा
'वनमिदमभयमिदानीं यत्रास्ते लक्ष्मणान्वितो रामः' ॥३८।। इति,
'विना सीतां रामः प्रविशति महामोहसरणिम्' ॥३९॥ इति च संसर्गाद्विप्रयोगाच्च दाशरथौ।
___ 'बुधो भौमश्च तस्योच्चैरनुकूलत्वमागतौ' ॥४०॥ इति ३० साहचर्याद् ग्रहविशेषे ।
१५
यथा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org