SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ ३२ [काव्यानुशासनम् अनोपपतिं प्रत्यभिसर्तुं न युक्तमिति ध्वन्यते । देशविशेषाद्यथा अन्यत्र यूयं कुसमावचायं कुरुध्वमत्रास्मि करोमि सख्यः । नाहं हि दूरं भ्रमितुं समर्था प्रसीदतायं रचितोऽञ्जलिर्वः ॥३३॥ १० अत्र विविक्तोऽयं देशः । प्रच्छन्नकामुकस्त्वया विसर्म्य इति विश्वसतां प्रति कयाचिनिवेद्यते । कालविशेषाद्यथा गुरुयणपरवस प्पिय किं भणामि तुह मंदभाइणी अहयं । अज्ज पवासं वच्चसि वच्च सयं च्चेव सुणसि करणिज्जं ॥३४॥ । [सप्तशतक ८५१] अद्य मधुसमये यदि व्रजसि तदहं तावन्न भवामि । तव तु न जानामि गतिमिति व्यज्यते । चेष्टाया यथा द्वारोपान्तनिरन्तरे मयि तया सौन्दर्यसारश्रिया प्रोल्लास्योरुयुगं परस्परसमासक्तं समासादितम् । आनीतं पुरतः शिरोंऽशुकमधः क्षिप्ते चले लोचने वाचस्तच्च निवारितं प्रसरणं संकोचिते दोलते ॥३५॥ १५ अत्र चेष्टायाः प्रच्छन्नकान्तविषय आकूतविशेषो ध्वन्यते । एवं वक्त्रादीनां द्विकादियोगेपि व्यञ्जकत्वमवसेयम् । तत्र वक्तृबोध्ययोगे यथा'अत्ता एत्थ' (पृ. २२) इत्यादि । अत्र वक्तृबोध्यपर्यालोचनया शेष्वेति विधिरूपव्यङ्ग्यार्थप्रतीतिः । एवं द्विकयोगान्तरे त्रिकादियोगे च स्वयमप्यूह्यम् । एषु मुख्यार्थस्य व्यञ्जकत्वमुदाहृतम् । अमुख्यस्य यथा साह(हे)ती सहि सुहयं खणे खणे दूमिया सिं मज्झ कए। सब्भावनेहकरणिज्जसरिसयं दाव विरइयं तुमए ॥३६।। [सप्तशतक८६०] २५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001585
Book TitleKavyanushasanam
Original Sutra AuthorHemchandracharya
AuthorT S Nandi, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year2000
Total Pages548
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Literature, & Kavya
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy