________________
३०
[काव्यानुशासनम् अत्र दूत्यास्तत्कामुकोपभोगो व्यज्यते । काकुनेर्विकारः, तद्विशेषाद्यथा
तथाभूतां दृष्ट्वा नृपसदसि पाञ्चालतनयां वने व्याप्रैः सार्धं सुचिरमुषितं वल्कलधरैः । विराटस्यावासे स्थितमनुचितारम्भनिभृतं गुरुः खेदं खिन्ने मयि भजति नाद्यापि कुरुषु ॥२८॥
वेणी. १.११] अत्र मयि न योग्यो खेदः कुरुषु तु योग्य इति काक्वा प्रकाश्यते । वाक्यविशेषाद्यथा
प्राप्तश्रीरेष कस्मात्पुनरपि मयि तं मन्थखेदं विदध्यात् निद्रामप्यस्य पूर्वामनलसमनसो नैव संभावयामि ।। सेतुं बघ्नाति भूयः किमिति च सकलद्वीपनाथानुयातः त्वय्यायाते वितर्कानिति दधत इवाभाति कम्पः पयोधेः ॥२९॥
१०
६.६४
१५
२०
अत्र नारायणरूपता गम्यते । वाच्यविशेषाद्यथा
उद्देशोऽयं सरसकदलिश्रेणिशोभातिशायी कुञ्जोत्कर्षाङ्कुरितरमणीविभ्रमो नर्मदायाः। किञ्चैतस्मिन् सुरतसुहृदस्तन्वि ते वान्ति वाताः येषामग्रे सरति कलिताकाण्डकोपो मनोभूः ॥३०॥
[ अत्र रतार्थं प्रविशेति व्यज्यते । अन्यासत्तेर्यथा
णोल्लेइ अणोल्लमणा अत्ता मं घरभरंमि सयलंमि । खणमेत्तं जइ संझाए होइ न व होइ वीसामो ॥३१।।
[सप्तशतक ८७५] अत्र सन्ध्या संकेतकाल इति तटस्थं प्रति कयापि द्योत्यते । प्रस्तावाद्यथा
सुव्वइ समागमिस्सइ तुज्झ पिओ अज पहरमित्तेण । एमेय किं ति चिट्ठसि ता सहि सज्जेसु करणिजं ॥३२॥
[सप्तशतक ९६२]
३०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org