SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ १० [काव्यानुशासनम् क्वचिद्वाच्याद्विभिन्नविषयत्वेन व्यवस्थापितो यथा कस्स व न होइ रोसो दटूण पिआइ सव्वणं अहरं सभमरपउमग्याइरि वारिअवामे सहसु इण्हेिं ॥२५।। [सप्तशतक ८८६] अत्र वाच्यं सखीविषयं व्यङ्ग्यं तु तत्कान्तोपपत्यादिविषयम् । एवं अलङ्कारभेदा रसादिभेदाश्च व्यङ्ग्या मुख्यादिभ्यो व्यतिरिक्ता ज्ञेयाः । तद्विषयो व्यञ्जकः शब्दः । मुख्याद्यास्तच्छक्तयः ॥२०॥ मुख्यागौणीलक्षणाव्यञ्जकत्वरूपाः शक्तयो व्यापारा मुख्यादीनां शब्दानाम् । तत्र समयापेक्षा वाच्या-वगमनशक्तिर्मुख्याऽभिधा चोच्यते । मुख्यार्थबाधादिसहकार्यपेक्षाऽर्थप्रतिभासनशक्तिर्गौणी लक्षणा च । तच्छक्त्युपजनितार्थावगमपवित्रितप्रतिपत्तृप्रतिभासहायार्थद्योतनशक्तिय॑ञ्जकत्वम् । अभिधानन्तरं च यद्यप्यन्वयप्रतिपत्तिनिमित्तं तात्पर्यशक्तिरप्यस्ति तद्विषयस्तात्पर्यलक्षणोऽर्थोऽपि, तथापि तौ वाक्यविषयावेवेति नात्रोक्तौ। वक्त्रादिवैशिष्टयादर्थस्यापि व्यञ्जकत्वम् ॥२१॥ __ वक्तृप्रतिपाद्यकाकुवाक्यवाच्यान्यासत्तिप्रस्तावदेशकालचेष्टादिविशेषवशादर्थस्यापि मुख्यामुख्यव्यङ्ग्यात्मनो व्यञ्जकत्वम् । वक्तृविशेषाद्यथा दृष्टिं हे प्रतिवेशिनि क्षणमिहाप्यस्मद्गृहे दास्यसि प्रायो नास्य शिशोः पिताद्य विरसाः कौपीरप: पास्यति । एकाकिन्यपि यामि तद्वरमितः स्रोतस्तमालाकुलं । नीरन्ध्राः पुनरालिखन्तु जरठच्छेदा नलग्रन्थयः ॥२६॥ किवीन्द्रवचनसमुच्चय० ५०० विद्यायाः] अत्र चौर्यरतगोपनं गम्यते । प्रतिपाद्यविशेषाद्यथा निःशेषच्युतचन्दनं स्तनतटं निर्मष्टरागोऽधरो नेत्रे दूरमनञ्जने पुलकिता तन्वी तवेयं तनुः । मिथ्यावादिनि दूति बान्धवजनस्याज्ञातपीडागमा वापी स्नातुमितो गतासि न पुनस्तस्याधमस्यान्तिकम् ॥२७॥ [अमरुशतक १०५] १५ २० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001585
Book TitleKavyanushasanam
Original Sutra AuthorHemchandracharya
AuthorT S Nandi, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year2000
Total Pages548
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Literature, & Kavya
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy