SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ २६ [काव्यानुशासनम् अत्र पतितं कुसुममुच्चिनु मा धुनीहि शेफालिकामिति विधिनिषेधयोरभिधाने सखि चौर्यरते प्रसक्ते वलयशब्दो न कर्तव्य इति निषेधान्तरं प्रतीयते । क्वचिद्विधावनुभयं यथा सणियं वच्च किसोयरि पए पयत्तेण ठवसु महिवढे। भजिहिसि वित्थयत्थणि विहिणा दुक्खेण निम्मविया ॥२१॥ अत्र शनैर्ऋजेति विध्यभिधाने न विधिर्नापि निषेधोऽपि तु वर्णनामात्रं प्रतीयते । क्वचिनिषेधेऽनुभयं यथा दे आ पसिअ निअत्तसु मुहससिजुण्हाविलुत्ततमोनिवहे । अहिसारिआण विग्धं करेसि अण्णाण वि हयासे ॥२२॥ [सप्तशतक ९६२] अत्र निवर्तस्वेति निषेधाभिधाने न निषेधो नापि विधिरपि तु मुखेन्दुकान्तिवर्णनामात्रं प्रतीयते । क्वचिद्विधिनिषेधयोरनुभयं यथा८.. वच्च महं चिअ एक्काए होंतु नीसासरोइअव्वाइं। मा तुज्झ वि तीए विणा दक्खिण्णहयस्स जायंतु ॥२३॥ - [सप्तशतक ९४४] अत्र ममैव निःश्वासरोदितव्यानि भवन्तु मा तवापि तां विना तानि जायन्तामिति विधिनिषेधयोरभिधाने न विधिर्नापि निषेधोऽपि तु कृतव्यलीकप्रियतमोपालम्भमात्रं प्रतीयते । क्वचिदविधिनिषेधेऽनुभयं यथा णहमुहपसाहिअंगो निद्दाघुम्मंतलोअणो न तहा। जह निव्वणाहरो सामलंग दूमेसि मह हिअयं ॥२४॥ [सप्तशतक ९३७] विगतमत्सराया मम न तथा नखपदादि चिहं भवदङ्गसङ्गि खेदावहं यथार्धनिष्पन्नसंभोगतयाधरदशनासंपत्तिरितीर्ध्याकोपगोपनमुपभोगोद्भेदेन कृतं(इति)वाच्योऽर्थः । तद्बलसमुत्थस्तु सहृदयोत्प्रेक्षितोऽत्यन्तवाल्लभ्यान्मुखचुम्बनपर एव तस्यास्त्वं यत्त्वदधरखण्डनावसरोऽस्या वराक्या न संपन्न इति न केवलं तस्या भवानतिवल्लभो यावद्भवतोऽपि सा सुतरां रोचत इति वयमिदानीं त्वत्प्रेमनिराशाः संजाता इति नायिकाभिप्रायो व्यङ्ग्यः । २० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001585
Book TitleKavyanushasanam
Original Sutra AuthorHemchandracharya
AuthorT S Nandi, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year2000
Total Pages548
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Literature, & Kavya
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy