________________
२४
[काव्यानुशासनम् अत्र यथा वयं न मुष्यामहे तथा त्वं जागृहीति विध्यभिधाने रात्रिरत्यन्धकारा, पतिः प्रोषितः, गृहं शून्यम्, अतस्त्वमभयो मत्पार्श्वमागच्छेति विध्यन्तरं प्रतीयते । क्वचिनिषेधे निषेधान्तरं यथा
आसाइयं अणाएण जेत्तियं तेत्तियण बंध दिहिं । ओरमसु वसह इण्हेिं रक्खिजइ गहवईच्छित्तं ॥१६॥
[सप्तशतक ९५८] अत्र गृहपतिक्षेत्रे दुष्टवृषवारणापरे निषेधवाक्ये उपपतिनिवारणं निषेधान्तरं प्रतीयते । क्वचिदविधिनिषेधे विधिर्यथा
महुएहिं किंव पंथिय जइ हरसि नियंसणं नियंबाओ। साहेमि कस्स रन्ने गामो दूरे अहं एक्का ।।१७।।
[सप्तशतक ८७७] अत्र विधिनिषेधयोरनभिधाने अहमेकाकिनी, ग्रामो दूर इति विविक्तोपदेशानितम्बवासोपि मे हरेति विधिः प्रतीयते। क्वचिदविधिनिषेधे निषेधो यथा
जीविताशा बलवती धनाशा दुर्बला मम । गच्छ वा तिष्ठ वा कान्त स्वावस्था तु निवेदिता ॥१८॥
अत्र गच्छ वा तिष्ठ वेत्यविधिनिषेधे जीविताशा बलवती धनाशा दुर्बला ममेति वचनात् त्वया विनाहं जीवितुं न शक्नोमीत्युपक्षेपेण गमननिषेधः प्रतीयते । २० क्वचिद्विधिनिषेधयोर्विध्यन्तरं यथा
नियदइयदंसणुक्खित्त पहिय अनेण वच्चसु पहेण । गहवइधूआ दुल्लंघवाउरा इह हयग्गामे ।।१९।।
[सप्तशतक ९५७] अत्रान्येन पथा वजेति विधिनिषेधयोरभिधाने हे स्वकान्ताभिरूपताविकत्थन पान्थ अभिरूपक इह २५ ग्रामे भवतो गृहपतिसुता द्रष्टव्यरूपेति विध्यन्तरं प्रतीयते। . क्वचिद्विधिनिषेधयोनिषेधान्तरं यथा
उच्चिणसु पडियकुसुमं मा धुण सेहालियं हलियसुण्हे । एस अवसाणविरसो ससुरेण सुओ वलयसद्दो ॥२०॥
[सप्तशतक ९५९]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org