________________
२२
५
१५
मुख्याद् व्यतिरिक्तः प्रतीयमानो व्यङ्गयो ध्वनिः ॥ १९ ॥
मुख्यगौणलक्ष्यार्थव्यतिरिक्तः प्रतीतिविषयो व्यङ्ग्योऽर्थः । स च ध्वन्यते द्योत्यत इति ध्वनिरिति १० पूर्वाचार्यैः संज्ञितः । अयं च वस्त्वलङ्काररसादिभेदात्त्रेधा । तथा ह्याद्यस्तावत्प्रभेदो मुख्यादिभ्योऽत्यन्तं भिन्नः । स हि वाच्ये विधिरूपे प्रतिषेधरूपो यथा
२०
२५
(७) “विशेष्यं नाभिधा गच्छेत् क्षीणशक्तिर्विशेषणे "
इति न्यायात् । न चात्र प्रयोजनमस्ति । अविनाभावादाक्षेपे च यदि लक्ष्यत्वमिष्यते तदा क्रियतामित्यत्र कर्तुः । कुर्वित्यत्र कर्मणः । प्रविश, पिण्डीमित्यादौ गृहं, भक्षय - इत्यादेश्च लक्ष्यत्वं स्यात् । पीनो देवदत्तो दिवा न भुङ्क्त इत्यादौ न पीनत्वेन रात्रिभोजनं लक्ष्यतेऽपि त्वर्थापत्त्या आक्षिप्यत इति । इह च यत्र वस्त्वन्तरे वस्त्वन्तरमुपचर्यते स गौणोऽर्थो यत्र तु न तथा स लक्ष्य इति विवेकः । कुशल- द्विरेफद्विकादयस्तु साक्षात्संकेतविषयत्वान्मुख्या एवेति न रूढिर्लक्ष्यस्यार्थस्य हेतुत्वेनास्माभिरुक्ता ।
व्यङ्गयं लक्षयति
८.
66
भम धम्म वीसत्थो सो सुणओ अज्ज मारिओ तेण गोलाणइकच्छकुडङ्गवासिणा दरियसीहेण ॥१३॥
[ गाथासप्तशती २.७५]
अत्र विस्रब्धो भ्रमेति विधिवाक्ये तत्र निकुञ्जे सिंहस्तिष्ठति त्वं च शुनोऽपि बिभेषि तस्मात्त्वया तस्मिन् न गन्तव्यमिति निषेधः प्रतीयते ।
क्वचिन्निषेधे विधिर्यथा
Jain Education International
[काव्यानुशासनम्
अत्ता एत्थ नु मज्जइ एत्थ अहं दियसयं पुलोएसु ।
मा पहिय रत्तिअंधय सेज्जाए महं; नु मज्जिहसि ||१४||
[ गाथासप्तशती ७.६७; सप्तशतक ६६९] अत्रावयोः शय्यायां मा निषत्स्यसीति निषेधवाक्ये इयं श्वश्रूशय्या इयं मच्छय्येति दिवाप्युपलक्ष्य रात्रौ त्वयेहागन्तव्यमिति विधिः प्रतीयते ।
क्वचिद्विधौ विध्यन्तरं यथा
बहलतमा हराई अज्ज पत्थो पई घरं सुनं ।
तह जग्गिज़्ज़ सयज्झय न जहा अम्हे मुसिज्जामो ||१५||
[ गाथासप्तशती ४.३५; सप्तशतक ३३५]
For Private & Personal Use Only
www.jainelibrary.org