________________
२०
५
१०
१५
[काव्यानुशासनम्
अत्र स्वार्थसहचारिणो गुणा जाङयामान्द्यादयो लक्ष्यमाणा अपि गोशब्दस्य परार्थाभिधाने निमित्तत्वमुपयान्तीति केचित् । स्वार्थ- सहचारिगुणाभेदेन परार्थगता गुणा एव लक्ष्यन्ते, न तु परार्थोऽभिधीयत इत्यन्ये । साधारणगुणाश्रयेण परार्थ एव लक्ष्यत इत्यपरे ।
संबन्धे कार्यकारणभावे आयुर्धृतं, आयुरेवेदम् । अत्रान्यवैलक्षण्येनाव्यभिचारेण च कार्यकारित्वादि प्रयोजनम् । तादर्थ्ये – इन्द्रार्था स्थूणा इन्द्रः । स्वस्वामिभावे राजकीयः पुरुषो राजा । ग्रामस्वामी ग्रामः । अवयवावयविभावे अग्रहस्त इत्यत्राग्रमात्रेऽवयवे हस्तः । मानमेयभावे आढको व्रीहिः । संयो रक्तद्रव्यसंयोगाद्रक्तः पटः । तात्कर्म्ये अतक्षा तक्षा । वैपरीत्ये अभद्रमुखे भद्रमुखः ।
लक्ष्यमर्थं लक्षयति
मुख्यार्थ संबद्धस्तत्त्वेन लक्ष्यमाणो लक्ष्यः ॥ १८॥
मुख्योऽर्थो गङ्गादिशब्दानां स्रोतः प्रभृतिस्तेन संबद्धस्तटादिरर्थस्तत्त्वेनाभेदेन लक्ष्यमाणो लक्ष्यः । तत्त्वेन लक्ष्यमाण इति वचनाद्भेदाभेदाभ्यामारोपित इति न वर्तते । शेषं तु गौणलक्षणमनुवर्तत एव । तद्विषयः शब्दो लक्षको यथा - गङ्गायां घोषः, कुन्ताः प्रविशन्ति । अत्र गङ्गायां घोषाधिकरणत्वस्य कुन्तानां प्रवेशस्य चासंभवान्मुख्यार्थबाधः । सामीप्यं साहचर्यं च निमित्तम् । गंगातट इति कुन्तवन्त इति च प्रयोगाद्येषां न तथाप्रतिपत्तिस्तेषां पावनत्वरौद्रत्वादीनां धर्माणां तथाप्रतिपादनं प्रयोजनम् ।
गौरनुबन्ध्य इति तु नोदाहरणीयम् । अत्र हि श्रुतिनोदितमनुबन्धनं जातौ न संभवतीति जात्यविनाभावित्वाद् व्यक्तिराक्षिप्यते, न तु शब्देनोच्यते । '
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org