________________
१८
५
१५
अत्र रावणस्य दृग्विंशतौ वैचित्र्येण स्वभावोक्तिर्निर्वाहितापि रसस्याङ्गत्वेन न योजितेति ॥ शब्दार्थयोः स्वरूपमाह
मुख्यगौणलक्ष्यव्यङ्ग्यार्थभेदात् मुख्यगौणलक्षकव्यञ्जकाः शब्दाः ॥१५॥ मुख्यार्थविषयो मुख्यो गौणार्थविषयो गौणो लक्ष्यार्थविषयो लक्षको व्ययार्थविषयो व्यञ्जकः शब्दः । विषयभेदाच्छब्दस्य भेदो, न स्वाभाविक इत्यर्थः ।
मुख्यमर्थं लक्षयति
साक्षात्संकेतविषयो मुख्यः ॥ १६ ॥
अव्यवधानेन यत्र संकेतः क्रियते स मुखमिव हस्ताद्यवयवेभ्योऽर्थान्तरेभ्यः प्रथमं प्रतीयत इति मुख्यः । स च जातिगुणक्रियाद्रव्यरूपस्तद्विषयः शब्दो मुख्यो वाचक इति चोच्यते । यथा - गौः शुक्लश्चलति देवदत्त १० इति । यदाह महाभाष्यकारः
(६) "चतुष्टयी शब्दानां प्रवृत्तिः " इति ।
[काव्यानुशासनम्
[अ. १., पा. ९, आ. २, ऋलुक सूत्र ]
जात्यादिस्वरूपं च प्रकृतानुपयोगान्नेह विपञ्चचते । जातिरेव सङ्केतविषय इत्येके । तद्वानित्यपरे ।
अपोह इत्यन्ये ।
गौणं लक्षयति
मुख्यार्थबाधे निमित्ते प्रयोजने च भेदाभेदाभ्यामारोपितो गौणः || १७॥
गौर्वाहीको गौरेवायमित्यादौ मुख्यस्यार्थस्य सास्नादिमत्वादेः प्रत्यक्षादिना प्रमाणेन बाधे निमित्ते च सादृश्यसंबन्धादौ, प्रयोजने च सादृश्यताद्रूप्यप्रत्तिप्रतिरूपे सत्यारोप्यारोपविषययोर्भेदाभेदेन च समारोपितोऽतथाभूतोऽपि तथात्वेनाध्यवसितो, गुणेभ्य आयातत्वाद्गौणः तद्विषयः शब्दोऽपि गौण उपचरित इति २० चोच्यते । तत्र सादृश्ये निमित्ते भेदेनारोपितो यथा - गौर्वाहीकः । इदं वक्ष्यमाणस्य रूपकालङ्कारस्य बीजम् । अभेदेन यथा- गौरेवायमिति । इदमतिशयोक्तिप्रथमभेदस्य ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org