SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ [काव्यानुशासनम् नात्यन्तं निर्वाहो यथा कोपात्कोमललोलबाहुलतिकापाशेन बद्ध्वा दृढम् नीत्वा वासनिकेतनं दयितया सायं सखीनां पुरः । भूयो नैवमिति स्खलत्कलगिरी संसूच्य दुश्चेष्टितं । धन्यो हन्यत एव निद्भुतिपर: प्रेयान् रुदत्या हसन् ।।९।। [अमरुशतक ९]] अत्र रूपकमारब्धमनियूढं च रसोपकाराय । न त्वेवं यथा स्वञ्चितपक्ष्मकपाटं नयनद्वारं स्वरूपताडेन । 1 उद्धाट्य मे प्रविष्टा देहगृहं सा हृदयचोरी ॥१०॥ [भासस्य] [अभिनवभारत्यां पठितः] अत्र नयनद्वारमित्येतावदेव सुन्दरं शृङ्गारानुगुणं न त्वन्यद्रूपणम् । निर्वाहेऽप्यङ्गत्वं यथा श्यामास्वङ्गं चकितहरिणीप्रेक्षिते दृष्टिपातान् १५ गण्डच्छायां शशिनि शिखिनां बर्हमारेषु केशान् । उत्पश्यामि प्रतनुषु नदीवीचिषु भ्रूविलासान् हन्तैकस्थं क्वचिदपि न ते भीरु सादृश्यमस्ति ॥११॥ मेघदूत २.४१] अत्र ह्युत्प्रेक्षायास्तद्वद्भावाध्यारोपरूपाया अनुप्राणकं सादृश्यं यथोपक्रान्तं तथा निर्वाहितमपि २० विप्रलम्भरसोपकाराय । न त्वेवं यथा न्यञ्चत्कुञ्चितमुत्सुकं हसितवत्साकूतमाकेकरं व्यावृत्तं प्रसरत्प्रसादि मुकुलं सप्रेम कम्प्रं स्थिरम् । उद्धृ भ्रान्तमपाङ्गवृत्ति विकचं मज्जत्तरोत्तरं २५ चक्षुः साश्रु च वर्तते रसवर्शादेकैकमन्यत्क्रियम् ॥१२॥ [बालरामायण २.१९] Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001585
Book TitleKavyanushasanam
Original Sutra AuthorHemchandracharya
AuthorT S Nandi, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year2000
Total Pages548
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Literature, & Kavya
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy