________________
१४
[काव्यानुशासनम् अत्रोपमा तदनुग्राहकश्च श्लेष ईर्ष्याविप्रलम्भस्य भाविनश्चर्वणाभिमुख्यं कुर्वनवसरे रसस्य प्रमुखीभावदशायामुपनिबद्ध उपकारी। न त्वेवं यथा
वाताहारतया जगद्विषधरैराश्वास्य निःशेषितं ./ते ग्रस्ताः पुनरभ्रतोयकणिकातीव्रव्रतैर्बर्हिभिः ।
तेऽपि क्रूरचमूरुचर्मवसनैर्नीताः क्षयं लुब्धकैः दम्भस्य स्फुरितं विदन्नपि जनो जाल्मो गुणानीहते ॥६॥
__[भल्लटशतक ८७] अत्र वाताहारत्वं पश्चाद्वाच्यमप्यादावुक्तम्-इत्यतिशयोक्तिरनवसरे गृहीता। तथाहि-प्रथमत एव प्रथमपादे १० हेतूत्प्रेक्षया यदतिशयोक्तेरुपादानं न तत्प्रकृतस्य दम्भप्रकर्षप्रभावतिरस्कृतगुणगणानुशोचनमयस्य निर्वेदस्याङ्गतामेति । न हि वाताहरत्वादधिको दम्भस्तोयकणव्रतं नापि ततोऽधिकं दम्भत्वं मृगाजिनवसनमिति। गृहीतस्याप्यवसरे त्यागो यथा
रक्तस्त्वं नवपल्लवैरहमपि श्लाघ्यैः प्रियाया गुणैः त्वामायान्ति शिलीमुखाः स्मरधनुर्मुक्ताः सखे मामपि । कान्तापादतलाहतिस्तव मुदे तद्वन्ममाप्यावयोः सर्वं तुल्यमशोक केवलमहं धात्रा सशोकः कृतः ॥७॥
[हनुमन्नाटक ५.४] अत्र प्रबन्धप्रवृत्तोऽपि श्लेषो व्यतिरेकविवक्षया त्यज्यमानो विप्रलम्भोपकारी । न त्वेवं यथा
आज्ञा शक्रशिखामणिप्रणयिनी शास्त्राणि चक्षुर्नवं 1/भक्तिभूतपतौ पिनाकिनि पदं लङ्केति दिव्या पुरी।
उत्पत्तिर्द्वहिणान्वये च तदहो नेदृग्वरो लभ्यते स्याच्चेदेष न रावणः क्व न पुनः सर्वत्र सर्वे गुणाः ॥८॥
[बालरामायण १.३६] २५ अत्र न रावण इत्यस्मादेव त्यागो युक्तः । तथा हि-रावण इत्येतज्जगदानन्दकारित्वाद्यर्थान्तरं
प्रतिपादयञ्जनकस्य धर्मवीरं प्रत्यनुभावतां प्रतिपद्यते । ऐश्वर्यं पाण्डित्यं परमेशभक्तिर्देशविशेषोऽभिजन इत्येतत्सर्वंलोकमपबाधमानस्याधर्मपरस्य नार्थक्रियाकारकमिति तावतोऽर्थस्य तिरस्कारकत्वेनैवंरावणचेष्टितं निर्वाहणीयं । यत्त्वन्यदुपात्तं 'क्वनु पुनर्' इति, तद्यदिससंदेहत्वेन योज्यते अथाक्षेपत्वेनाथापिनेदृग्वरोलभ्यत इत्यत्रार्थान्तरन्यासत्वेन तथापि प्रकृतस्य धर्मवीरस्य न कथंचिन्निर्वाहः ।
२०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org