SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ १२ १० १५ २० तत्र रसोपकारप्रकारानाह तत्परत्वे काले ग्रहत्यागयोर्नातिनिर्वाहे निर्वाहेऽप्यङ्गत्वे रसोपकारिणः ||१४|| अलङ्कारा इति वर्तते । तत्परत्वं रसोपकारकत्वेनालङ्कारस्य निवेशो, न बाधकत्वेन, नापि ताटस्थ्येन । यथा - 6.95.0 चलापाङ्गां दृष्टिं स्पृशसि बहुशो वेपथुमतीं रहस्याख्यायीव स्वनसि मृदु कर्णान्तिकगतः । करौ व्याधुन्वत्याः पिबसि रतिसर्वस्वमधरं वयं तत्त्वान्वेषान्मधुकर हतास्त्वं च सुकृती ॥२॥ अत्र भ्रमरस्वभावोक्तिरलङ्कारो रसपरत्वेनोपनिबद्धो रसोपकारी । बाधकत्वेन यथा Jain Education International स्रस्तः स्रग्दामशोभां त्यजति विरचितामाकुलः केशपाशः क्षीबाया नूपुरौ च द्विगुणतरमिमौ क्रन्दतः पादलग्नौ । व्यस्तः कम्पानुबन्धादनवरतमुरो हन्ति हारोऽयमस्याः क्रीडन्त्याः पीडयेव स्तनभरविनमन्मध्यभङ्गानपेक्षम् ||३|| 'लीलावधूतपद्या कथयन्ती पक्षपातमधिकं नः । मानसमुपैति केयं चित्रगता राजहंसीव ॥ ४॥ [काव्यानुशासनम् [ शाकुन्तल - २० ] अत्र पीडयेवेत्युत्प्रेक्षालङ्कारोऽङ्गी संस्तदनुग्राहकञ्श्चार्थश्लेषः करुणोचितान् विभावानुभावान्संपादयन् बाधकत्वेन भातीति न प्रकृतरसोपकारी । ताटस्थ्येन यथा - [ रत्नावली १.१६] [ रत्नावली २.८] फलहकलिखितसागरिकाप्रतिबिम्बदर्शनाभिजाताभिलाषस्य वत्सराजस्येयमुक्तिस्तटस्थस्येव कविनोपरचितेति श्लेषानुगृहीतोपमालङ्कारप्राधान्येन प्रस्तुतो रसो गुणीकृतोऽपरिजिघटिषया । २५ अङ्गत्वेऽपि कालेऽवसरे ग्रहणं यथा For Private & Personal Use Only उद्दामोत्कलिकां विपाण्डुररुचं प्रारब्धजृम्भां क्षणात् आयासं श्वसनोद्गमैरविरलैरातन्वतीमात्मनः । अद्योद्यानलतामिमां समदनां नारीमिवान्यां ध्रुवं पश्यन्कोपविपाटलद्युति मुखं देव्याः करिष्याम्यहम् ||५|| [ रत्नावली २.४] www.jainelibrary.org
SR No.001585
Book TitleKavyanushasanam
Original Sutra AuthorHemchandracharya
AuthorT S Nandi, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year2000
Total Pages548
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Literature, & Kavya
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy