________________
_ [काव्यानुशासनम् अथवा नियमः समयः कवीनाम् । यथा कृष्णनीलयोः, कृष्णहरितयोः, कृष्णश्यामयोः, पीतरक्तयोः, शुक्लगौरयोः, चन्द्रे शशमृगयोः, कामकेतने मकरमत्स्ययोः, अत्रिनेत्रसमुद्रोत्पन्नयोश्चन्द्रयोः द्वादशानामप्यादित्यानां, नारायणमाधवविष्णुदामोदरकूर्मादेः । कमलासंपदोः, नागसर्पयोः,
क्षीरक्षारसमुद्रयोः, सागरमहासमुद्रयोः, दैत्यदानवासुराणां चैक्यम् । तथा चक्षुरादेरनेकवर्णोपवर्णनम्, ५ बहुकालजन्मनोऽपि शिवचन्द्रमसो बालत्वं, कामस्य मूर्त्तत्वममूर्त्तत्वं चेत्यादि । काव्यस्य हेतुमुक्त्वा स्वरूपमाह -
अदोषौ सगुणौ सालङ्कारौ च शब्दार्थों काव्यम् ॥११॥ चकारो निरलङ्कारयोरपि शब्दार्थयोः क्वचित्काव्यत्वख्यापनार्थः ।
यथा
शून्यं वासगृहं विलोक्य शयनादुत्थाय किञ्चिच्छनैनिद्राव्याजमुपागतस्य सुचिरं निर्वर्ण्य पत्युर्मुखम् । विसन्धं परिचुम्ब्य जातपुलकामालोक्य गण्डस्थली लजानम्रमुखी प्रियेण हसता बाला चिरं चुम्बिता ॥१।।
[अमरुशतक ८२] १५ गुणदोषयोः सामान्यलक्षणमाह
रंसस्योत्कर्षापकर्षहेतू गुणदोषौ, भक्त्या शब्दार्थयोः ॥१२॥ रसो वक्ष्यमाणस्वरूपः, तस्योत्कर्षहेतवो गुणाः, अपकर्षहेतवस्तु दोषाः । ते च रसस्यैव धर्माः, उपचारेण तु तदुपकारिणोः शब्दार्थयोरुच्यन्ते । रसाश्रयत्वं च गुणदोषयोरन्वयव्यतिरेकानुविघानात् । तथा
हि-यत्रैव दोषास्तत्रैव गुणाः, रसविशेषे च दोषा न तु शब्दार्थयोः । यदि हि तयोः स्युस्तद्वीभत्सादौ २० कष्टत्वादयो गुणा न भवेयुः, हास्यादौ चाश्लीलत्वादयः । अनित्याश्चैते दोषा । यतो यस्याङ्गिनस्ते दोषास्तदभावे न दोषास्तद्भावे तु दोषा इत्यन्वयव्यतिरेकाभ्यां गुणदोषयो रस एवाश्रयः ॥ अलङ्काराणां सामान्यलक्षणमाह
अङ्गाश्रिता अलङ्काराः ॥१३॥ रसस्याङ्गिनो यदङ्ग शब्दार्थों तदाश्रिता अलङ्काराः । ते च रसस्य सतः क्वचिदुपकारिणः, क्वचिदनुप२५ कारिणः । रसाभावे तु वाच्यवाचकवैचित्र्यमात्रपर्यवसिता भवन्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org