________________
[काव्यानुशासनम् काव्यं कर्तुं जानन्ति विचारयन्ति वा ये ते काव्यविदः कविसहृदयाः । वेत्तेर्विन्तेश्चावृत्त्या रूपम् । तेषां शिक्षया वक्ष्यमाणलक्षणया काव्य एव पौन:पुन्येन प्रवृत्तिरभ्यासः । अभ्याससंस्कृता हि प्रतिभा काव्यामृतकामधेनुर्भवति । यदाहुः
(५) “अभ्यासो हि कर्मसु कौशलमावहति । न हि सकृन्निपतितमात्रेणोदबिन्दुरपि ग्रावणि ५ निम्नतामादधाति" इति ।
[वामन-१/३]
शिक्षयेत्युक्तमिति शिक्षा लक्षयतिसतोप्यनिबन्धोऽसतोऽपि निबन्धो नियमश्छायाधुपजीवनादयश्च शिक्षाः ॥१०॥
सतोऽपि जातिद्रव्यगुणक्रियादेरनिबन्धनम् । असतोऽपि जात्यादेरेव निबन्धनम् । नियमोऽतिप्रसक्तस्य १० जात्यादेरेवैकत्रावधारणम् । छायायाः प्रतिबिम्बकल्पतया, आलेख्यप्रख्यतया, तुल्यदेहितुल्यतया,
परपुरप्रवेशप्रतिमतया चोपजीवनम् । आदिशब्दात्पदपादादीनां च काव्यान्तराद्यर्थोचित्यमुपजीवनम् । पुनरादिपदात्समस्यापूरणाद्याः शिक्षाः ।
तत्र सतोऽपि सामान्यस्यानिबन्धो यथा-मालत्या वसन्ते, पुष्पफलस्य चन्दनद्रुमेषु, फलस्याशोकेषु । द्रव्यस्य यथा-कृष्णपक्षे सत्या अपि ज्योत्स्नायाः, शुक्लपक्षे त्वन्धकारस्य । गुणस्य यथा-कुन्दकुड्मलानां १५ कामिदन्तानां च रक्तत्वस्य, कमलमुकुलप्रभृतेश्च हरितत्वस्य, प्रियङ्गुपुष्पाणां च पीतत्वस्य। क्रियाया यथा-दिवा नीलोत्पलानां विकासस्य, निशानिमित्तस्य शेफालिकाकुसुमानां विनंसस्य।
असतोऽपि सामान्यस्य निबन्धो यथा-नदीषु पद्मनीलोत्पलादीनां, जलाशयमात्रेऽपि हंसादीनां, यत्र तत्र पर्वते सुवर्णरत्नादीनामिति । द्रव्यस्य यथा-तमसि मुष्टिग्राह्यत्वस्य सूचीभेद्यत्वस्य च, ज्योत्स्नायां च
कुम्भोपवाह्यत्वादेः । गुणस्य यथा-यशो हासादौ शौक्लयस्य, अयशः पापादौ काय॑स्य, क्रोधानुरागयो २० रक्तत्वस्य । क्रियाया यथा-चकोरेषु चन्द्रिकापानस्य, चक्रवाकमिथुनेषु निशि भिन्नतटाश्रयणस्य।
जातेनियमो यथा समुद्रेष्वेव मकराः, ताम्रपामेव मौक्तिकानि । द्रव्यस्य यथा-मलय एव चन्दनस्थानम्, हिमवानेव भूर्जोत्पत्तिपदम् । गुणस्य-यथा सामान्योपादाने रत्नानां शोणतैव, पुष्पाणां शुक्लतैव, मेघानां कृष्णतैव । क्रियाया यथा-ग्रीष्मादौ संभवदपि कोकिलरुतं वसन्त एव । मयूराणां वर्षास्वेव विरुतं नृत्तं चेति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org