________________
[काव्यानुशासनम् प्रतिभा नवनवोल्लेखशालिनी प्रज्ञा । अस्य काव्यस्येदं प्रधानं कारणम् । व्युत्पत्त्यभ्यासौ तु प्रतिभाया एव संस्कारकाविति वक्ष्यते । सा च सहजौपाधिकी चेति द्विधा । तत्र सहजामाह
सावरणक्षयोपशममात्रात् सहजा ॥५॥ सवितुरिव प्रकाशस्वभावस्यात्मनोऽभ्रपटलमिव ज्ञानावरणीयाद्यावरणम्, तस्योदितस्य ५ क्षयेऽनुदितस्योपशमे च यः प्रकाशाविर्भावः सा सहजा प्रतिभा । मात्रग्रहणं मन्त्रादिकारणनिषेधार्थम् । सहजप्रतिभाबलाद्धि गणभृतः सद्यो द्वादशाङ्गीमासूत्रयन्ति स्म । द्वितीयामाह
मन्त्रादेरौपाधिकी ॥६॥ __ मन्त्रदेवतानुग्रहादिप्रभवौपाधिकी प्रतिभा । इयमप्यावरणक्षयोपशमनिमित्ता, एवं दृष्टोपाधिनिबन्धनत्वात्त्वौ१० पाधिकीत्युच्यते। सा चेयं द्विविधापि प्रतिभा
व्युत्पत्त्यभ्यासाभ्यां संस्कार्या ॥७॥ व्युत्पत्त्यभ्यासौ वक्ष्यमाणौ । ताभ्यां संस्करणीया । अत एव न तौ काव्यस्य साक्षात्कारणं प्रतिभोपकारिणौ तु भवतः । दृश्यते हि प्रतिभाहीनस्य विफलौ व्युत्पत्त्यभासौ । १५ व्युत्पत्तिं व्यनक्ति -
लोकशास्त्रकाव्येषु निपुणता व्युत्पत्तिः ॥८॥ लोके स्थावरजङ्गमात्मके लोकवृत्ते च, शास्त्रेषु शब्दच्छन्दोनुशासनाभिधानकोशश्रुतिस्मृतिपुराणेतिहासागमतर्कनाट्यार्थकामयोगादिग्रन्थेषु, काव्येषु महाकविप्रणीतेषु निपुणत्वं तत्त्ववेदित्वं व्युत्पत्तिः । लोकादिनिपुणतासंस्कृतप्रतिभो हि तदनतिक्रमेण काव्यमुपनिबघ्नानि । अभ्यासं व्याचष्टे
काव्यविच्छिक्षया पुनः पुनः प्रवृत्तिरभ्यासः ॥९॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org