________________
Traverses on less trodden path...
"
763
सर्वतन्त्र स्वतन्त्रस्यास्य मतिर्विशेषतया च वेदान्तेऽप्रतिहतरूपेण प्रसरतीति नैषधागम्यते । 'वाचारम्भणं नामधेयं मृत्तिकेत्येव सत्यं 6" इत्यादिनाविद्यया भासमानस्य जगतः मिध्यात्वं, 'एकमेवा द्वतीयं ब्रह्म ', ७० 'नेह नानास्ति किञ्चन' 1 'शिवमद्वैनं १, ७ तत्र को मोहः कः शोकः एकत्वमनुपश्यतः इत्यादिना चैकत्वं परमतत्त्वस्योपनिषदः उद्घोषयन्ति । एतेषां वेदान्तवाक्यानां सारं श्रीहर्षोऽप्येकस्मिन्नेव श्लोके उपनिबध्नाति ' वस्तु वास्तु घटते न भिदाना यौक्तनैकविधबाधविरोधैः । तत्त्वदीहितविजृम्भिततत्तदभेदमेतदिति तत्त्वनिरुक्तिः ॥ इत्यादिना । बृहदारण्यकोपनिषद आत्मा 'हिरण्मयः पुरुषः एकहंसः १०० इति यदुक्तं तमेवार्थ यथा योगी स्वशरीरान्तर्वर्तिनमात्मानमवबुध्यति तद्वन् नलोऽपि हिरण्मयं हंस ददर्शेति 'पयोधिलक्ष्मीमुषिकेलिपल्लवे रिरंसुइसी कलनादसादरम् । स तत्र चित्र विचरन्तमन्तिके हिरण्मयं हंसमबोधि नैषधः ||" इत्यनेन श्लोकेन विवृगोति । 'अहं ब्रह्मास्मि 1 तत्त्वमसि', ०४ 'सर्व खल्विदं ब्रह्म', ' 'आत्मा च ब्रह्म', ' , 10 'ब्रह्म भावश्च मोक्षः ', 11 इत्यादिवचनैरात्मब्रह्मणोरैक्यमेत्र मोक्ष इति उपनिषदादि वेदान्तग्रन्थेषु जेगीयते । वेदान्तिनां मोक्षावस्थ मिमां 'खञ्च ब्रह्म च संसारे मुक्तौ तु ब्रह्म केवलम् । इति खोच्छित्तिमुत युक्ति वैदग्धी वेदवादिनां' ||" इत्यादिना वर्णयति । वाक्कायमनोभिरनिर्वचनीयमात्मज्ञानमधिगत्य ब्रह्मज्ञानो सर्वविधभयमुक्तो भवतोति 'यतो वाचो निवर्तन्ते अप्राप्य मनसा सह् । आनन्दं ब्रह्मणो विद्वान् न बिभेति कदाचन' 3 ' अभयं हि वै ब्रह्म भवति', ' 'अभयं वै जनक प्राप्तोऽसि ', ' इत्यादिवचनैः उपनिषत्सु प्रतिपाद्यते । भुक्तात्मनो तामेत्र निरतिशयानन्दस्वरूपां मोक्षावस्थां नलहस्तमुक्तहं सस्यानन्दावस्थामुपवर्ण्य प्रतिपादयति यथा 'अधिगत्य जगत्य श्रीश्वरादथ मुक्ति पुरुषोत्तमात्ततः । वचसामपि गोचरो न यः स तमानन्दमविन्दत द्विजः 8 ॥ इति । एवञ्च 'विज्ञानमानन्दं ब्रह्म', " ' आनन्दो ब्रह्मति व्यजानात् 18 इत्यादिना सच्चिदानन्दस्वरूपमात्मनो उपत्रर्णितमुपनिषदि । श्रीहर्षोऽपि अनुमेवार्थमुपनिषदः मनसि निधाय कथयति यत् भवसिन्धुमनादि सम्प्रतीर्य यथा यतिः परमानन्दस्वरूपं ब्रह्म प्राप्नोति तद्वत् नारदो नाकनायकेन्द्रस्य निकेतनं प्राप इति ।
74
9
59 छान्दोग्योपनिषत् - VI-I-4. 60.
--VI-11-1.
".
61. कठोपनिषत् -
62. माण्डूक्योपनिषत् - 7.
63 ईशावास्योपनिषत् - 7.
64. नै. - XX1 108.
65. बृहदारण्यकोपनिषत् - 1V-111-12.
66. . -I-117.
246
67.
68. छान्दोग्योपनिषत् - VI-XVI-3 69. 1II-XIV-1.
Jain Education International
70. ब्रह्मसूत्रशांकरभाष्यम् - जिज्ञासाधिकरणम्-1-1.
71.
"D
**
72
-XVII-74.
73. तैत्तिरीयोपनिषत् -11-4.
74. बृहदारण्यकोपनिषद्भाष्यम् - I-IV-10.
75.
—I-IV-10.
""
76. नं. - II - 1.
77. बृहदारण्यकोपनिषत् - 111-1X-29. 78. तैत्तिरीयोपनिषत.
-1-1 4.
79. स व्यतीत्य वियदन्तरगाव वाकनायकनिकेतनमा सम्प्रतीर्थ भवसिन्धुमनादि ब्रह्म शर्मभरचार यतीव ॥
Ft.-V-9.
For Private & Personal Use Only
www.jainelibrary.org