________________
३३८
शान्त्याचार्य-ज्ञान कलश-विरचितम्
शा०टि० ३४९) उत्ताल: सावेगः । सम्भेदो मिश्रणम् । विषमाश्ववाजिनां सूर्याश्वानाम् । अश्वीयमश्वसमूहः । प्रशस्तहस्तश्रवणामनणुनक्षत्रमालाकलितकुम्भभ्राजिनी रजनीमिव 'निजप्रभान्धकारितभुवनभागां यामगजवशामारूढा' प्रहरकरिणीमध्यासिताम् । कीदृशीमिव ? रजनीमिव । कयम्भूता द्वयीम् ? प्रशस्तहस्तश्रवणाम् एकत्र प्रकृष्टकरकर्णाम् , अन्यत्र प्रवरहस्तश्रवणनक्षत्राम् । अनणुनक्षत्रमालाकलितकुम्भभ्राजिनीम् एकत्र बृहन्नक्षत्रमालाभरणयुक्तकुम्भ5स्थलशोभिनीम् , अन्यत्र बृहक्षपङ्क्तियुक्तकुम्भराशिशोभिनीम् । शेष सुगमम् । सुरभिवासरारण्यवनलेखेव चैत्रदिनाटवीवनपङ्क्तिरिव। 'किर्मीरः कर्बुरः। कार्मरङ्गः फरकः ।। ३५२) लास्यं कोमलनृत्तम् । ताण्डवमुद्धतनृत्तम् । पुस्तं लेप्यम् ।।
ता०टि. [यया सा] ॥५०॥ मूले प्रथमम् ! भूम्ना बाहुल्येन ॥९१॥ ०च्छिदैः उपलक्षित [इत्यर्थः] ॥९५॥ रोदो रोदसूशब्दः स्त्रीक्लीबलिङ्गः । प्रभाछिद्रः [प्रभा-]रहितः ॥९४।।
३४८) रहः एकान्तम् । सुमनस: पुष्पाणि । इतिकृत्यायाः आसीनाया इति सम्बन्धः । आलोकशब्देनोत्सारयनिय अपसरत अपसरत मार्ग' मुश्चत इत्यादि - [वचनैः इत्यर्थः] ॥
३४९) विषमाश्ववाजी रविहरिः । कदलिका दीउ (१) । प्रशस्तहस्तश्रवणां प्रशस्तशुण्डादण्डकर्णाम् । नक्षत्रमालाकलितकुम्भः भचक्रसहितशशिविशेषः, कण्ठिकाकलितकुम्भस्थलं च । गजवसां हस्तिनीम् । सुरभिवासरारण्यवनलेखेव वसन्तदिनेऽरण्ये वनलेखेव । त्वङ्गता गच्छता । तारकाराजः चन्द्रः । अमुक्त० बद्ध० । वर्म तनुत्रम् । कामरङ्गः तपुरक ( ? ) ।।
३५०) चतुःषष्ठिकलाश्रयता चतुर्गुणेनाधिकः चन्द्रस्य षोडश कला, अस्य च चतुःषष्ठिकलोः॥
३५१) क्षरत्सु पतप्सु ॥ ३५२) पुस्तकर्म० लेखादि० । अत्रभवती पूज्या ॥
३५३) अप्रागल्भ्यविलसित' अदृष्टपारसरसि अप्रतिवचनदानादिकम् । चतुरोक्तिभिः चतुराश्च ता उक्तयश्च ताभिः । प्रालम्बान् हारान् । प्रियकराष्टिसरला तत्पतिकराकृष्टिभिः सरलाः । सानुबन्ध सदोषोत्पत्तिकम् ; यदने-(कार्थः -) 'अनुबन्धोऽप्रयोगे स्याच्छिशौ सुख्यानुयायिनि । प्रकृतस्यानुवर्ते च दोषस्योत्पादनेऽपि च ॥' (४।१५२)। आपीड शेखरम् ।।
३५६) मूर्तिः शरीरम् ॥ ३५७) अनुपलक्षितैः अज्ञातैः ।। (1) C drops न०. (2) BS वसा०. (3) BC प्रकर०. (4) B1 प्रभवर० . (5) S कुन्त०. (6) S ०धन०. (7) B1 कमीरः (8) B ल्यासं.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org