________________
तिलकमञ्जरीटिप्पनकद्वयम्
३१३ शा०टि० १८१) कुरुविन्दः पद्मरागमणिः । सङ्घयानशास्त्रेणेव नवदशालङकृतेन श्वेतवीनवस्त्रद्वयेन संवीतम् एकत्र नवदशाङ्ककशोभितेन, अन्यत्र नूतनदशिकाराजितेन ; सङ्घयानशास्त्रं गणितशास्त्रन् । अलिक ललाटमू । विधूयमानेन कान्त्या विलासिनीसंहत्या च एकत्र विधूयमानेन चन्द्रायमाणेन कान्त्या, अन्यत्र प्रर्यमाणेन विलासिनीसङ्घातेन । शर्राहवेव चन्दनाङ्गराग पाण्डुरपयोधरया चन्दनाङ्गरागवद् धवलमेघया, अन्यत्र चन्दनाङ्गरागेण धवलस्तनया । राजहंसिकयेव सरसमृणालिकाहारभूषितशरीरया एकत्र आर्द्रमृणालभोजनपुष्टदेहया, अन्यत्र सरसमृणालहारशोभितदेहया ।।
१८३) वरः भर्ता ॥
१८५) 'तव राजहंस' 'इत्यादि-व्याजो-]क्तिः, यतो राजहंसव्याजेन नृपप्रधानो हरिवाहन उक्तः, हंसीव्याजेन तिलकमञ्जरी उक्ता, सरसिजवनप्रवेशव्याजेन च विद्याधरराजधानीप्रवेशः सूचित इति । सङ्गलिताः मिलिताः ।।
ता०टि. १८१) कुरुविन्दः पद्मरागः; यदने-[कार्थः-] 'कुरुविन्दः पद्मरागे मुकुरव्रीहिभेदयोः । कुल्माषे हिङ्गुले मुस्ते...' [४।१४४] । घन सूत्रेण त्रिगुणैको धनः, तस्य सूत्रेण करणा यस्य; निचिततन्तुना च । संख्यानशास्त्रेण संख्यानशास्त्रं गणितम् । नवदशालत० नवदशसंख्या, वस्त्रप्रान्तो दशा च । नयमार्गः नीतिशास्रम् । अलिक० भाल० । तारका नक्षत्रं, कनीनिका च । विधूयमानेन कान्त्या कान्त्या चन्द्रायमानेन, कम्प्यमानेन च । बालव्यजनः चामरः । पयोधर० स्तनौ, मेघाश्च ।।
१८२) पदप्रसर० [पदं] स्याद्यन्त, पादौ च । कराङगुलीगलन्नखमयूख० तरणानन्तरमपि जलाद्राङगुलयच्योतन्ति (इति । प्र शुना उच्छिनेन । आरब्धोद्यम पूर्वोक्तः गुणः इत्यर्थः] । स्वतत्त्व स्वरूपम् ।।
१८३) कपोलेन पुलकेन [इति सम्बन्धः] । पूर्णपात्र वधपिनिकाग्रहणाय [इत्यर्थः] । एकपद एव तत्क्षणादेव ।।
१८५) समयः कालः । शाक्यबुद्धिपुरसरैः प्रधानैः (इत्यर्थः] घट्टन० तेन । कर्शित० कृशीकृत० ॥
(1) Bl drops इत्यादि...राजहंस,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org