________________
४३८
]
अष्टसहस्री
ममेदं कार्यमित्येवं ज्ञातं पूर्व यदा भवेत् । स्वसिद्धौ प्रेरकं तत्स्यादन्यथा तन्न सिद्धयति ॥ ममेदं भोग्यमित्येवं भोग्यरूपं प्रतीयते । ममत्वेन च विज्ञानं भोक्तर्येव व्यवस्थितम् ॥ ममेद कार्यमित्येवं मन्यते पुरुषः सदा । पुंसः कार्यविशिष्टत्वं नियोगोऽस्य च वाच्यता ॥
१०३ १२२ १२२
१२२
यथा प्रयोजकस्तत्र बाध्यमानप्रतीतिकः । प्रयोज्योऽपि तथैव स्वाच्छब्दो बुद्धयर्थवाचकः ।। यजते पचतीत्यत्र भावना न प्रतीयते । यज्याद्यर्थातिरेकेण तस्या वाक्यार्थता कुतः ॥ यथा द्विजस्य व्यापारो याग इत्यभिधीयते । ततः परा पुनर्दष्टा करोतीति न हि क्रिया ॥ यजि क्रिया च द्रव्यस्य विशेषादपरा न हि । सामानाधिकरण्येन देवदत्ततया गतेः ॥ यजते पचतीत्यत्र भाबनायाः प्रतीतितः । यजाद्यर्थातिरेकेण युक्ता वाक्यार्थता ततः ॥ यजि क्रियापि भावस्याविशेषादपरव हि । सामानाधिकरण्येन देवदत्ततया गतेः । यज्जातीयः प्रमाणस्तु यज्जातीयार्थदर्शनम् । दृष्टं संप्रति लोकस्य तथा कालान्तरेऽप्यभूत् ॥ यत्राप्यतिशयो दृष्टः स स्वार्थानतिलंघनात् । दूरसूक्ष्मादिदृष्टौ स्यान्न रूपे श्रोत्रवृत्तिता । यदा च क्वचिदेकत्र भवेत्तन्नास्तितागतिः । नैवान्यत्र तदा सास्ति क्वैवं सर्वत्र नास्तिता । यदीयागमसत्यत्वसिद्धौ सर्वज्ञतोच्यते । न सा सर्वसामान्यसिद्धमात्रेण लभ्यते ।। यावबुद्धो न सर्वज्ञस्तावत्तद्वचनं मृषा । यत्र क्वचन सर्वज्ञे सिद्ध तत्सत्यता कुतः ।। ये तू मन्वादय: सिद्धाः प्राधान्येन त्रयीविदाम् । त्रयीविदाश्रितग्रन्थास्ते वेदप्रभवोक्तयः ।। येऽपि सातिशया दृष्टाः प्रज्ञामेधादिभिर्नराः । स्तोकस्तोकान्तरत्वेन न त्वतीन्द्रियदर्शनात् ।।
१२३ १२६. २५५ २५८
२६५
४३०
४३०
२५५
२५८
१०५
१२०
वक्तव्यापारविषयो योऽर्थों बुद्धौ प्रकाशते । प्रामाण्यं तत्र शब्दस्य नार्थतत्त्वनिबन्धनम् ।। व्यापार एष मम किमवश्यमिति मन्यते । फलं विनैव नैवं चेत् सफलाधिगमः कुतः ?। विशेषणं तु यत्तस्य किचिदन्यत्प्रतीयते । प्रत्ययार्थो न तद्युक्त धात्वर्थः स्वर्गकामवत् ।। विवक्षापरतन्त्रत्वात् भेदाभेदव्यवस्थितेः । लाभिधानात्कारकस्य सर्वमेतत्समञ्जसम् ।। विज्ञानगुणदोषाभ्यां वाग्वृत्तेर्गुणदोषता । वाञ्छन्तो वा न वक्तारः शास्त्राणां मंदबुद्धयः ।।
शब्दव्यापाररूपो वा व्यापारः पुरुषस्य वा । द्वयव्यापाररूपो वा द्वयाव्यापार एव वा ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org .