SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ निर्दिष्टानि प्रस्तुतग्रन्थ-पद्यानि [१३७] स्युः । ततः चलप्रतिमा स्नपनपीठे स्थापयेत् , सृष्ट्या च प्रतिमाया जलधारां भ्रामयेत , चन्दनेन च पूजयेत् । ततः शक्रस्तवभणन-साधुवन्दने कुर्यात् । स्थिरप्रतिमानां तु स्थानस्थितानामेव कुसुमांजल्यादि सर्व कर्तव्यम् । ततः कुसुमांजलिं गृहीत्वा 'प्रोद्भूतभक्तिभर-[अर्ह द० पृ. ४९-५२] इत्यादि वृत्त पंचक भणित्या प्रतिमायास्तं क्षिपेत् । ततो निर्माल्यमपनीय प्रतिमा प्रक्षाल्य पूजयेत् । ततः 'सद्वेद्यां भद्रपीठे ' [अहंद० पृ.५३,५४] इत्यादि वृत्त-द्वयेन कुसुमांजलिं क्षिपेत् । ततः सवौषधिं गृहीत्वा 'मुक्तालंकार-'[ अर्हद० पृ. ६६] इत्यार्यया पुष्पालंकारावतारणे कृते सर्वौषधि-स्नानं कारयेत् । ततः प्रक्षाल्य, संपूज्य च प्रतिमाया 'भव्यानां भव-सागर-[अर्हद० पृ.६६] इति वृत्तेन धूपमुक्षिपेत् । तत एकं पुष्प समादाय 'किं लोकनाथ !' [अहंद० पृ ६७] इति वृत्तं भणित्वा उष्णीषदेशे पुष्पमारोपयेत् । ततः कलशद्वयं कलशचतुष्टयादि वा प्रक्षाल्य धूप-पुष्प-चन्दन-वासाद्यैरधिवास्य कुंकुम-कर्पूर-श्रीखण्डादि-संपृक्त-सुरभिजलेन भृत्वा पिहितमुखं पट्टके चन्दन-कृत-स्वस्तिके संस्थापयेत् । ततः कुसुमांजलि-पंचक क्रमेण 'बहलपरिमल-[ ] इत्यादि मात्रावृत्तपंचकं पठित्वा क्षिपेत् । नवरमाद्यान्त्यवृत्तयोः ‘नमोऽर्हत्-सिद्धा-' इत्यादि भणेत् । वृत्तान्ते तु शङ्ख-भेरी-झल्लर्यादि-टणत्कारं मन्द्रं दधुः । शाटिकाद्याः कलशान् भृत्वा कुसुमांज लिपंचकं क्षिपेत् , क्षिप्त्वा वा कलशान् भरेदुभयथाऽप्यदोषः। तत इन्द्र-हस्तान् प्रक्षाल्य, हस्तयोर्भाले च चन्दनतिलकान् कृत्वा, स्नपनक्रियद्रव्यनिक्षिप्ते सकलसंधानुमत्या कलशानुत्थाप्य, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001516
Book TitleJina Snatra Vidhi
Original Sutra AuthorJivdevsuri, Vadivetalsuri
AuthorLalchandra Pandit
PublisherJain Sahitya Vikas Mandal
Publication Year1965
Total Pages214
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy