SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ श्री-चिन्तामणि-पार्श्वनाथ-स्तवनम् . किं कर्पूरमयं सुधारसमयं किं चन्द्ररोचिर्मयं, किं लावण्यमयं महामणिमयं कारुण्यकेलीमयम् । विश्वानन्दमयं महोदयमयं शोभामयं चिन्मयं, शुक्लध्यानमयं वपुर्जिनपतेर्भूयाद् भवालम्बनम् ॥ १ ॥ पाताल कलयन् धरां धवलयन्नाकाशमापूरयन् , दिक्चक्र क्रमयन् सुरासुरनरश्रेणिं च विस्मापयन् । ब्रह्माण्डं सुखयन् जलानि जलधेः फेनच्छलाल्लोलयन् , श्रीचिन्तामणिपार्श्वसम्भवयशोहंसश्चिरं राजते ॥ २ ॥ पुण्यानां विपणिस्तमोदिनमणिः कामेभकुम्भे सृणिः, मोक्षे निःसराणिः सुरद्रुकरणिज्योतिःप्रकाशारणिः । दाने देवमणि तोत्तमजनश्रेणिः कृपासारणिविश्वानन्दसुधाघृणिर्भवभिदे श्री पार्श्वचिन्तामणिः ॥ ३ ॥ श्रीचिन्तामणिपार्श्व ! विश्वजनतासञ्जीवनं त्वं मया, दृष्टस्तात! ततः श्रियः समभवन्नाशक्रमाचक्रि यत् । मुक्तिः क्रीडति हस्तयोर्बहुविधं सिद्धं मनोवाञ्छितं, दुर्दैवं दुरितं च दुर्दिनभयं कष्ट प्रणष्टं मम ॥ ४ ॥ यस्य प्रौढतमप्रतापतपनः प्रोदामधामा जगजधालः कलिकालकेलिदलने मोहान्धविध्वंसकः । नित्योद्योतपदं समस्तकमलाकेलीगृहं राजते, स श्रीपार्श्वजिनो जने हितकृतौ चिन्तामणि: पातु माम् ॥ ५ ॥ विश्वव्यापितमो हिनस्ति तरणिर्बालोऽपि कल्पाङ्कुरो, दारिद्र्याणि गजावलिं हरिशिशुः काष्ठानि वढेः कणः । पीयूषस्य लवोऽपि रोगनिवहं यद्वत्तथा ते विभो! मूर्तिः स्फूर्तिमती सती त्रिजगती-कष्टानि हतु क्षमा ॥ ६ ॥ श्रीचिन्तामणिमन्त्रमोतियुतं होकारसाराश्रितं, श्रीमर्ह नमिऊण पास कलितं त्रैलोक्यवश्यावहम् । द्वेधाभूतविषापहं विसहर श्रेयः प्रभावाश्रयंसोल्लासं वसहाङ्कितं जिणफुलिंगानन्ददं देहिनाम् ॥ ७ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001510
Book TitleUvassaggaharam stotra Swadhyay
Original Sutra AuthorBhadrabahuswami
AuthorAmrutlal Kalidas Doshi, Subodhchandra Nanalal Shah
PublisherJain Sahitya Vikas Mandal
Publication Year1971
Total Pages276
LanguagePrakrit, Sanskrit, Gujarati
ClassificationBook_Devnagari, Stotra, & Occult
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy